________________
श्री रत्नसारकुमार-चरित्रम् न खादेयं न पिबेयमित्यादिनियमं तवाग्रे करोमि।
अथ तस्याः सद्भक्तिभावपूजया सुप्रसन्ना चक्रेश्वरी प्रत्यक्षीभूय तामेवमवादीत्-भो वत्से! तव भगिन्याः कुशलं वर्तते। तदर्थं मा शोचीः। अद्यारभ्य मासान्तिमे दिवसे भगिन्याः समाचारस्तव मिलिष्यति, दैवबलेन तदैव साक्षात्कारोऽपि भविष्यति। अत्र सन्देहो नास्ति किञ्चिदपि । त्वं सुखेन भुझ्व, पिब। सर्व भव्यं भविष्यतीति। पुनः सा देवीमपृच्छत्-हे शरणागतवत्सले! मातः! मासस्यान्तिमे दिने कुत्र केन रूपेण भगिनीदर्शनं भवितेति स्पष्टं मयि कृपां विधाय सूचय। देव्यूचे-एतनगरस्य पश्चिमे प्रदेशेऽतिदूरे महारण्यमस्ति, यत्र महता कष्टेनापि लोका गन्तुं न शक्नुवन्ति। मणिरत्नमयमादिनाथप्रभोर्मन्दिरं भासुरं भासते। तत्र महार्हरत्नजटिता सौवर्णमयी मूर्तिः श्रीऋषभदेवस्य वर्त्तते। तामेव मूर्ति प्रत्यहं भक्त्या समभ्यर्चय। तत्रैव भगिनी द्रक्ष्यसि। अन्यदपि सकलं समीहितमेष्यसि। एष मम सेवकश्चन्द्रचूडनामा देवो मयूरीभूय प्रत्यहं त्वां तत्र नयिष्यतीति निगद्य देवी यावत्तूष्णीं तस्थौ तावत्तत्रैको मयूरो गगनमण्डलादाययौ।
तिलकमञ्जरी रत्नसारं निगदति-भोः कुमार! देव्याः प्रसादेन मयूरोपरि समुपविश्य प्रतिदिनमादिनाथप्रभुं प्रत्यक्षफलप्रदमभ्यर्चितुं यत्र वने सा समागच्छति, तदेवेदं वनं तदेव मन्दिरमिदम्। सा कन्याप्यहमेवास्मि स एवायं मयूरः। इति मामकं सर्व चरित्रमवेहि। किं च चक्रेश्वर्या वचनेन श्रीआदिनाथप्रभुपूजाया अद्यैव त्रिंशत्तमं दिनं याति, परमिदानी पर्यन्तं भगिन्याः शुद्धिर्मेलनं वा मया न लेभे। अतः पृच्छामि-हे कुमार! त्वमनेकदेशान् भ्रान्त्वा भ्रान्त्वात्रागतोऽसि। कुत्रापि काचिदधिकरूपलावण्यवती कन्या दृष्टा किं वा श्रुता। तत्रावसरे कुमार ऊचे-अयि सुन्दरि! अशेषमहीमण्डले परिभ्रमता मया भवादृशी त्रिभुवनविनिर्जितकामिनी नैव कुत्रा
17