________________
श्री रत्नसारकुमार-चरित्रम् कन्या सुखं यास्यति न वेति तृतीया चिन्ता जायते। इतीत्थं लोके हन्तेति खेदे किलेति निश्चयेन कन्या-पितृत्वं कष्टम्-कष्टकारीति भावः।
अथैकदा वसन्ततॊ ते द्वे भगिन्यौ क्रीडितुमाराममाजग्मतुः। तत्रैकस्य महतस्तरोः शाखायां सुदृढां डोरिकां बद्धवाऽऽन्दोलनं कर्तुं प्रवृत्ताऽशोकमञ्जरी तथा विदधतीं तां तिलकमञ्जरी महता जवेन झूलयामास। तयोस्तदद्भुतं क्रीडनं द्रष्टुं पौरा भूयांसस्तत्राययुः। तत्रैवावसरे कश्चिद् विधाधरो लोकरलक्षितस्तामुत्पाट्य हृतवान्। अथ साऽशोकमञ्जरी महता स्वरेण रुदती भो भो लोकाः! धावत धावत, मामपहृत्य कोऽप्यसौ यातीति चुक्रोश। ततः सर्वे लोकास्तत्पृष्ठमधावन्त। परमेतेषां पश्यतामेव स विद्याधरस्तां कुत्र नीतवानिति केऽपि न जज्ञिरे। अतिप्रीतिपात्रपुत्रीहरणश्रवणतोऽतिदुःखितो भूजानिस्तत्कालमेव कियतोऽश्ववारान् सुभटांस्तस्याः शुद्ध्यै प्रेषितवान्। केनापि क्वापि सर्वत्र गिरिकन्दरादौ बहुधा मार्गणे कृतेऽपि शुद्धिर्न लेभे। इतश्च तिलकमञ्जरी प्राणतोऽपि वल्लभाया भगिन्या हरणेन तत्कालमेव मूर्छामाप, ततो भूमौ पपात। सचन्दनातिशीतलजलसेकादिना प्रासचैतन्या सा भृशं विलपन्तु लग्ना। तथाहि
अयि भगिनि! त्वामपश्यन्ती कथं जीविष्यामि। हा देव! कथमकाल एव प्राणप्रियभगिनीवियोगोऽकारि। इत्थं भृशं शोचन्ती तिलकमञ्जरी संध्यासमये गृहमागतवती। अन्येऽपि पौरा नरा नार्यश्च स्वस्वसदनमापेदिरे। ततस्तामेव शोचन्तः पितृमातृतिलकमञ्जरीप्रभृतयः सर्वे शिश्यिरे। अथ निशायाः पश्चिमे यामे समुत्थाय चक्रेश्वर्या मन्दिरमागत्य विविधोपचारैस्तामाभ्यर्च्य सा तिलकमञ्जरीति प्रार्थितवती-हे मातः! चक्रेश्वरि! हृताया भगिन्याः शुद्धिं कथय?, अचिरादेव तया सह सङ्गमय। नो चेदिह भवे तावदहं
16