________________
श्री रत्नसारकुमार-चरित्रम् ततः पंचधात्रीभिर्लालिते पालिते ते कन्ये क्रमेण ववृधाते। लघुवयस्येव ते सर्वासु विद्यासु चतुष्षष्टिकलासु च निपुणे बभूवतुः। क्रमशः सञ्जाततारुण्ये ते सौभाग्येन, लावण्येन, वपुःसौन्दर्येण, सकलशास्त्रनैपुण्येन च युवकजनानां चित्ते चमत्कृतिं तेनाते। तयोः परस्परं महान् स्नेह आसीत्। एकस्या वियोगमपरा क्षणमपि न सहते, सर्व कार्य सहैव कुर्वाते। तदाह - सह जग्गिएण सह सोविएण, सह हरिससोभवंताणं । नयनाणं व धब्याणं, भाजम्ममकित्तिमं पिम्मं ||१||
व्याख्या - सह जागरणशीलानां, सह स्वापिनां, सह हर्षशोकवतां धन्यानां पुण्यवतां जीवानां नयनानामिवाऽऽजन्मयावज्जीवम्, अकृत्रिमं-नैसर्गिकम् प्रेम-स्नेहो जायते।
तयोरीदृशीं प्रीतिमालोक्य राजा मनसि दध्यौ-अहो! कीदृशी प्रीतिरेतयोः। यत्कदापि क्षणमपि परस्परं विरहं सोढुं नैव शक्नुवाते। यद्येक एवैतयोर्भर्त्ता भवेत्तर्हि वरं स्यात्। अन्यथा मिथो विश्लेषमसहमाने द्वेऽपि नूनं मरिष्यतः। एतयोर्मनोऽनुकूलः सकलसद्गुणशाली सुकृतमाली कोऽपि कुलवान् धन्यः परमभाग्यशाली पुमानेव वरो भवितव्यो नान्य इत्यादि चिन्तयन्नासीत्क्षोणीपालः उक्तं च - जातेति पूर्व महतीति चिन्ता, कस्मै प्रदेयेति ततः प्रवृद्धा । दत्ता सुखं यास्यति वा नवेति, कन्या-पितृत्वं किल हन्त कष्टम् ||१|| ____ व्याख्या - पूर्वम्-आदौ मम कन्या जाता-समुत्पन्ना इत्येवं महती चिन्ता पितुर्जायते। ततः-तदनन्तरं प्रवृद्धा-वर्द्धितायां तस्यां कस्मै-वराय योग्याय प्रदेया कन्येयमिति। अर्थात् सद्योग्यपति शुद्ध्यर्थं महती चिन्तोत्पद्यते। पुनः कस्मैचित् योग्यपुंसे दत्तापि
15