SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ __ श्री रत्नसारकुमार-चरित्रम् दिव्याङ्गना, लोकोत्तरया निजासीमसौन्दर्यलक्ष्म्या देवाङ्गनामपि त्रपयन्ती, सर्वाभरणतनुतरवसनधारणेन महतीं सुषमामधिगच्छन्ती, मयूरारूढा तत्रागात्। मलयगिरिजातसुरभिशीतलचन्दनकुसुमाक्षतादिसकलपूजोपकरणमादाय जिनवरेन्द्रं परया भक्त्या पूजयामास। यथामति संस्तुत्य प्रभोरग्रे नर्तितुं लग्ना। तस्यातीवसुन्दरतमं संगीतमयं नृत्यं समवलोक्य सकीरः कुमारश्चेतसि भूयसी चमत्कृति प्राप्तवान्। सा कन्यापि मूर्तिमन्तं मदनमिव कुमारं सादरं चिरं प्रेक्षाञ्चक्रे। तत्रावसरे रत्नसारस्तामपृच्छत्। यदि तव मनसि रोषो नोत्पद्येत । तर्हि त्वां किमपि पृच्छेयम्। तयोक्तम्सुखेन पृच्छतु भवान्। कुमार आह___ अयि सुन्दरि! त्वं कासि?, कुत आगतासि?, कस्य कुले जातासि? इत्यादि भवत्या आमूलमुदन्तं श्रोतुमिच्छा वर्तते। ततः कन्यकोवाच-भोः कुमार! यत्पृष्टं तत्कथयामि सर्वमात्मवृत्तं सावधानमनसा निशम्यताम्। तथाहि कनकपुरे वरनगरे कनकध्वजो नाम नीतिपूर्णकुशलो राजाऽस्ति। तस्य कुसुमश्रीराज्ञी सुशीलत्वादिसर्वगुणसम्पन्नास्ति। अथैकस्यां रजन्यां सुखेन सुप्ता राज्ञी निजोत्सङ्गे पतन्त्यौ द्वे कुसुममालेऽपश्यत्स्वप्ने, स्वप्नमालोक्य सा जागृताऽभूत्। प्रभाते नृपान्तिके समागत्य निशिदृष्टस्य स्वप्नस्य फलमप्राक्षीत्। राजोवाच-प्रिये! ईदृशस्वप्नेन त्वमेकदा पुत्रीयुगलं प्रसविष्यसे। तच्छ्रुत्वा मनस्यहृष्यत्सा, तदनु धृतगर्भा राज्ञी नवमासेषु गतेषु सहैव कन्यकायुगलमजीजनत्। महता महेन द्वादशेऽहनि प्रथमाया अशोकमञ्जरी, द्वितीयस्यास्तिलकमञ्जरीति पित्रा नाम चक्रे। 1. जन् (प्रेरक अद्यतनी उ.पु.ए.) । 14
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy