________________
श्री रत्नसारकुमार-चरित्रम् कुमार! स तापसः पुमानास्ति, किन्तु केनापि प्रतिकूलेन पुंसा विद्याबलेन कापि कामिनी पुरुषीकृतास्ति। मधुरालापेन मुखाकृत्या मन्दगत्यादिना च तां काञ्चिदबलामवेहि। देवदानवविद्याधराणामन्यतमः कोऽपि तां मृद्वङ्गीमतिरूपलावण्यवती कामपि कुमारी वशीकर्तुमेवं विडम्बयति। यदि सा तस्य दुष्टपुंसः कराच्छुटिष्यति, तर्हि त्वामेव वरिष्यति। अत्र किमपि संशयं मा कृथाः। इत्थं मधुरालापमाकर्ण्य स्वेष्टदेवमिव तापसकुमारं स्मरन् रत्नसारः कीरेण साकं जवेनाग्रे चचाल। अथ कियद् दूरं गतः कुमारः एकस्मिन् मनोरमे वने नानातरुलतादिना सुमण्डिते अत्युच्चैस्तोरणध्वजादिभिः सुशोभितं श्रीमदादिनाथभगवतो मन्दिरमद्राक्षीत्। तत्रागत्य कुमारस्तुरगान्नीचैरवातरत्। फलपुष्पादिकं करे निधाय सकीरः कुमारो मन्दिरान्तः प्रविश्य भगवतः पूजां परया भक्त्या विधाय स्तोतुं लग्नः। सिरिनाभिनामकुलगरकुलकमलुल्लासणेगदिवसवई! भवदुहलक्खविहंडण! जयमण्डण णाह! तुज्झ णमो |
व्याख्या - श्रीनाभिनामा कुलकरभूपस्तस्य कुलकमलोल्लासने सूर्यसमान!, भवदुःखलक्षविखण्डन-सांसारिकलक्षक्लेशप्रणाशक!, जगद्मण्डन! हे नाथ! तुभ्यं नमोऽस्तु।
इत्याद्यनेकविधस्तवेन प्रभुमादिनाथमभिष्ट्रय रत्नसारो मन्दिरस्याद्भुततमां शोभां सर्वतो विलोक्य क्वचिदेकत्र बहिःप्रदेशे समुपाविशत्। तत्राह-शुकं प्रति। हे शुकराज! इयता कालेनापि तापसकुमारस्य समाचारो न लभ्यते, को जानाति क्व नीतवान् दुष्टः स इति। इत्थं विलापं कुर्वन्तं रत्नसारमाह कीरः। भोः कुमार! मनसि धैर्यमाधेहि, खेदं मा कुरु। अद्यैव ते सोऽवश्यं मिलिष्यतीति। इत्थं शुकेन साकं यावदालपति-कुमारस्तावद्
13