________________
श्री रत्नसारकुमार-चरित्रम् व्याख्या - प्रतिपदं-पदे पदे सहस्रशः-सहस्राणि शूराःशौर्यवन्तः पुमांसः सन्ति-वर्तन्ते, तथा अनेकशः-अनेके विद्याविदः-विद्यां विदन्ति जानन्तीति-विद्याविदः पण्डिताः। एवं अपास्तधनदाः-अपास्तो विजितो धनदः कुबेरो यैस्ते कुबेरतोऽप्यधिकधनवन्तः श्रीपतयः-लक्ष्मीस्वामिनः पुरुषा अपि क्षितौपृथ्व्यां भूरिशः-बहवः सन्ति, किन्तु दुःखार्दितम्-दुःखैः पीडितम्, अन्यमनुष्यम्, आकर्ण्य-श्रुत्वा निरीक्ष्य-अवलोक्य यन्मनः येषां मनश्चेतः तादूप्यम्-तदाकारताम् प्रतिपद्यते-प्राप्नोति ते तादृशाः सत्पुरुषाः-सज्जनाः-परोपकारिणः जगति-लोके पञ्चषाः-पञ्च षडेव सन्तीति भावः।
मित्र! यथाजातमात्मचरित्रमशेषं त्वां वक्ष्यामि। त्वादृशमहापुरुषाणामग्रे किमपि गोप्यं नैवास्ति, एवं मिथ आलपत्सु कुमारतापसकीरेषु-यदभूदाश्चर्यकारिवृत्तं तदाकर्ण्यताम्। तत्रैवावसरे गर्जन्ती, परितो रजांसि समुच्छलयन्ती, सर्वमन्धकारमयं कुर्वती, काचिदेका, महावात्या समुत्तस्थे। सा च पश्यतोरेव तयो रत्नसारकीरयोस्तापसमपहृतवती। ह्रियमाणस्तापस उच्चैरेवं पूच्चक्रेभो रत्नसार! मामनाथं रक्ष रक्ष, विलम्बं मा कृथाः। अथैतदाकर्णयन् कुमार आह-रे दुष्ट! पापिष्ठ! प्राणादपि प्रियतरमेनं मित्रमपहृत्य क्व व्रजसि?, तिष्ठ तिष्ठ। मित्ररत्नमिदं चोरयित्वा क्व यासीत्यादि क्रुधा जल्पन् तत्पृष्ठमधावत्। कियद् दूरं गतो रत्नसारस्तापसमपश्यन् कीरेण भणितः-भो रत्नसार! क्वापि स तापसस्तदपहर्ता वा न दृश्यते। को जानाति सा वात्या तं तापसं कियडूरं नीतवतीति। इयता कालेन वेगवान् वायुस्तं योजनानां लक्षं निनायेति तर्कयामि। अत इदानीं पश्चाद्वलितव्यमेव श्रेयस्करं प्रतिभाति। शुकोक्तं तथ्यं वचः श्रुत्वा स कुमारः पश्चाद् वलन् मार्गे भृशं शुशोच। अत्रावसरे कीरस्तमेवं कथयितुं लग्नः-अये
12