________________
श्री रत्नसारकुमार-चरित्रम् ...... प्रदत्तान् शुकेन सह कुमारो यथारुचि बुभुजे। ततस्तस्मै मुखवासाय लवङ्गलाकर्पूरजयपत्रिकादिसुरभिद्रव्याणि नागवल्लीं च ददौ। घोटकमपि तदुचितभक्ष्यमभोजयत्। सर्वे पानाशनादिना तोषितास्तेन। ततः सुखोपविष्टास्त्रयः परस्परमालपितुं प्रवृत्ताः। अत्रान्तरे कुमारकृतसङ्केतः कीरस्तमवादीत्-भोस्तापस! त्वयाऽनवसरे यौवनावस्थायामतिदुर्वहतापसत्वं कथं जगृहे? तावकं वपुरतिसुन्दरं दृश्यते, ईदृशेन वपुषा तपश्चरणं न घटते, नूनमीदृक् शरीरेण शमीलताच्छेदनमिव तपष्करणं मन्ये, महाभाग! त्वदीयमिदं सौजन्यं, चातुर्यकला च वने मालतीव मुधा जायते। तवेदं वपुर्दिव्याम्बरेण रत्नाभरणेन च शोभां धातुमर्हति। अति-स्निग्धा मृदवो भ्रमरवच्छ्यामलास्तेऽमी केशा जटाकलापेन शोभा नो दधते। तारुण्यलावण्यसम्पन्नो भवान् सांसारिकामन्दानन्दमेवानुभवितुमर्हतीदानी, किमिदं वैराग्यतो दैवयोगतः कस्यचिद्विषयविमुखस्य तापसस्य वशतो वा भवताऽधारि?
अथेदृशानि कीरगदितानि वचनानि श्रुत्वा वारिपूर्णलोचनस्तापसः सगद्गदं जगाद्-भोः शुकराज! त्वादृशोऽपरः कोऽपि जगति नैवास्ति, यतो मां पश्यतोर्भवतोरीदृशी करुणा प्रादुरभूत्। इह लोके स्वकीयदुःखेन दुःखिनस्तु सर्वे भवन्त्येव, परन्तु परेषां दुःखानि पश्यन्तः कियन्त एव लसन्ति सन्तः सदुःखाः। यदुक्तं नयविदा - शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयोऽप्यपास्तधनदास्तेऽपि क्षिती भूरिशः । किन्त्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखार्दितं यन्मनस्ताद्रूप्यं प्रतिपद्यते जगति ते सत्पुरुषाः पञ्चषाः ||१|| 1. वृक्षविशेषः, यस्मिन् गर्भेऽग्निरस्ति ।
11