________________
श्री रत्नसारकुमार-चरित्रम् न्तिकमेत्य तमेवमवादीत् सः । भोः कुमार ! कस्ते जनपदः ? कस्मिन्नगरे निवससि?, कस्मिंश्च वंशे त्वमुत्पन्नोऽसि ?, का ते जातिः ?, माता पित्रोरभिधानं किमस्ति ?, कस्ते कुटुम्बः?, का च
शुभाभिधा ? कथमत्रैकाकी समागतोऽसि ?, इतस्ततः परिभ्रमन् किं शोधयसि ?, इत्थं सप्रेमातिमधुरं तापसोदितं निशम्य कुमारो नितरां जहर्ष। रत्नसारस्तत्कालमेव यावत् प्रत्युत्तरं दातुं चिकीर्षति, तावन्निसर्गचपलः शुकस्तापसमवोचत- भोस्तापस! तवेदानीमेतदीयकुलवंशादिज्ञानेन किं प्रयोजनम् ?, किमत्र कस्यचित्पाणिपीडनं चिकीर्षसि ?, त्वमधुना कामपि पृच्छां विनैवाऽऽतिथ्यं विधेहि । यतोऽतिथिः साधूनामपि पूजनीयो भवति । उक्तञ्चान्यमते
गुरुरग्निर्द्विजातीनां, वर्णानां ब्राह्मणो गुरुः । पतिरेव गुरुः स्त्रीणां, सर्वस्याभ्यागतो गुरुः ||१||
शुकोदितादीदृशवचनाच्चमत्कृतस्तापसो नितरां प्रससाद । तत एकां पुष्पमालां कीरशिरसि समर्पितवान्। तत्पश्चादेवमगादीत्भोः कुमार! त्वं श्लाघ्योऽसि, यदीदृशः पटुतरः शुकस्ते सुहृतमोऽस्ति । अये कुमार! मम प्राघूर्णिको भव । यद्यपि मादृशां तापसानां भवादृशातिथियोग्या कापि सामग्री नास्ति । तथापि यथा लब्धोपचारेणार्चनं करोमि, तदवश्यमेवाङ्गीकार्यं भवादृशेन सुहृत्तमेन । इत्थं मिष्टवाक्येन रत्नसारं सन्तोषयन्, रम्यं वनं दर्शयन्, फलपुष्पादिभिर्मनोहराणां नानाजातीयानां लतानां तरूणां च नामानि कथयन्, स तापसोऽवोचत - भो महाभाग्य! एतस्मिं - स्तटाके स्नाहि । ततो रत्नसारः स्नातानुलिप्तः कृतनित्यक्रियो यावदासीत्तावन् नानाविधानि परिपक्वानि सुस्वादुफलानि समानीय रत्नसारस्य पुरः समर्पयत्तापसः। अमृतस्वादुभरां भूयसीं परिपक्वां द्राक्षाम्, रसालान् मिष्टतरान् कदलीफलानि परिपक्वानि, पक्वान् पनसान्, नारिकेर-खर्जूर- जम्बु - बीजपूर - दाडिमप्रमुखान् तापस
-
10