SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्री रत्नसारकुमार-चरित्रम् मानसक्लेशकारणं पितरं व्याजहार। पितोवाच-वत्स! मया त्वं छलितोऽसि न, किन्तु मनसि ममेयं शङ्कोदियाय, यदीदृशाश्वे दर्शिते सदैव तमारुह्य स्वैरं सर्वत्र परिभ्रमिष्यसि, तथा सति तव वियोगो मां बाढं बाधिष्यते। इति धियैवाद्यावधिस्त्वां तमश्वं नादर्शयम्। यदि तेन त्वं रुष्टोऽसि तर्हि तुभ्यमद्यैव तं ददामि। तमारुह्य मनो विनोदय इत्युक्त्वा कुमाराय तुरगं दत्तवान्। तदनु प्रमोदभरमानसः कुमारो द्वित्रिमित्रसंयुतस्तमश्वमारुह्य बहिरगात्। तत्रागतास्ते सर्वे स्वस्ववाहं वेगेन धावयितुं लग्नाः रत्नसारस्तु यथा यथा वल्गामाक्रष्टुं लग्नस्तथा तथा तदश्वः प्रधावितुमैहिष्ट। तत्रावसरे वसुसारश्रेष्ठिनं सदनस्थः कीरो जजल्प-स्वामिन्! रत्नसारस्तुरगारूढो महीयसा वेगेन याति। अतो मामनुगन्तुमाज्ञापय येन तदनुगतोऽहं तदीयशुद्धिं कुर्याम्, विषमदेशमापन्नस्यासहायस्य तस्याहं साहाय्यं करिष्यामि। कीरोदितमाकर्ण्य हृष्टचेता वसुसारस्तमवादीत्-शुक! त्वं सम्यक् कथयसि, शीघ्र याहि, तत्सहायी भव। इति वसुसारश्रेष्ठिन आज्ञां समवाप्य स्वात्मानं धन्यं मन्यमानः कीरस्तूर्णं पिञ्जराबहिर्भूय महता जवेन तदन्वगात्। अचिरादेव सोऽपि तेन कुमारेणामिलत्। तमागतं शुकं लघुबान्धवमिव प्रगाढस्नेहेन कुमारः स्वाङ्के समुपावेशयत्। अन्ये च मित्राणि रत्नसारमतिदूरङ्गतमपश्यन्तः पश्चाद् वलिताः स्वस्वसदनमागुः। इतश्च कीरेण सह रत्नसार एकस्यामरण्यान्यामाययौ। तत्रैकस्मिन् वृक्षे महादोलायामुपविष्टोऽसीमानन्दमनुभवन् देवकुमाराकारः कश्चिदेकस्तापसस्तेन दृष्टः। तत्रावसरे स कुमारस्तमात्मीयमित्रमिव सस्नेहं द्रष्टुं लग्नः। सोऽपि मदनमूर्त्तिमिव मनोहरं रत्नसारं सादरमवलोकयन् दध्यौ-अहो! कोऽयमद्यप्राघूर्णिकोऽत्रागत इत्यवधार्य दोलातोऽवतीर्य कुमारा1. अरण्यानी (स्त्री) स.ए. ।
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy