________________
श्री रत्नसारकुमार-चरित्रम् ईदृशोऽस्तिनिर्मासं मुखमण्डले परिमितं, मध्ये लघुः कर्णयोः, स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोगमे । पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठं प्रधानं जवे, राजा वाजिनमारुरोह सकलेर्युक्तं प्रशस्तैर्गुणैः ||१||
व्याख्या - मुखमण्डले यस्य कृशता, मध्ये-कुक्षिप्रदेशे परिमितम् - अल्पता, कर्णौ च यस्य लघू स्तः, स्कन्धे बन्धुरम्यस्य स्कन्धो बन्धुरो रम्यो दीर्घो मांसलश्च, उरसि-वक्षसि अप्रमाणम् बहुदीर्घता, पुना रोमोद्गमे-यस्य केशाः स्निग्धामृदवः, पुनः पश्चिमपार्श्वयोः-पश्चाद्भागयोः पीनम्-पुष्टता, पृष्ठं च यस्य पृथुतरमतिविशालं, जवे-वेगे प्रधानम्-श्रेष्ठम्, प्रशस्तैःउत्तमैः शास्त्रोक्तैः समस्तैर्गुणैर्युक्तमश्वं यदि राजा आरुरोहउपविशेत्तर्हि स तुरगस्तं नृपमेकाहेन योजनानां शतं नयेत्, वायुरिव वेगवान् ससाहेन सकलां पृथ्वीं परिभ्रम्य स्वस्थानमायाति।
भो मुग्ध-रत्नसार! ईदृशमश्वरत्नं गृहे स्थितमपि त्वां नादर्शयत् कदापि तव पिता। किमेतन्न जानासि? गृहगतममूल्यं पित्रा गोपितं तमश्वमजानन् मयि मुधा किं कुतर्कयसि। त्वयि वीरतां धीरतां च तदैव ज्ञास्यामि, यदा तत्रारुह्य स्वैरं पर्यटिष्यसि सर्वत्र, इत्युदीर्य किन्नरो गगनवम॑नान्यत्र चचाल।
तदाकर्ण्य मनसि भृशं खिद्यमाना रत्नसारकुमारः स्वसदनमागत्य कपाटं पिधाय पल्यङ्के शिश्ये। अथैनमनागतं विलोक्य बहुधा मार्गितेऽपि तमपश्यता तत्रागत्य पित्रैवं भणितः। हे वत्स! कथमकाले सुतोऽसि, किमस्ति कश्चित्तव व्याधिराधिर्वा? किं वा केनाप्यवज्ञातोऽसि? यद् भवेत्तद् ब्रूहि, अज्ञातदुःखस्य प्रतिकारं कथं कुर्यामित्यादि पित्रोक्तं श्रुत्वा कपाटमुद्घाट्य बहिराययौ कुमारः।