________________
श्री रत्नसारकुमार-चरित्रम्
व्याख्या - संतोषहीनस्य सुरेन्द्रस्य चक्रवर्त्तिनो वा सौख्यं तथा न जायते, यथा भव्यजीवस्य सन्तुष्टमनसो जायते । अतो वच्मि हे भव्यात्मन् ! सुखं वाञ्छसि चेत्तर्हि धनादीनां परिमाणं क्रियताम्! अथेदृशं गुरोर्वचनमाकर्ण्य तदैव सम्यक्त्वसहितं परिग्रहपरिमाणं स व्यधात्। तथाहि -
हे स्वामिन्! मम लक्षपरिमितानि रत्नानि, दशलक्षं दीनाराः मुक्तावैडूर्ययोरष्टाष्टमूढकम् । अष्ट कोटयः कोशे रौप्यकाणि, षड्गोकुलानि, एकैकस्मिन् दशसहस्रगवां स्थितिः । पञ्चशतानि गृहाणि, शतानि वाहनानि। अश्वानां सहस्रम्। दन्तिनः शतानि, एतान्येव मया गृहे सदा स्थेयानि इतोऽधिकानि हेयान्येव। तथा पञ्चाऽतिचारविशुद्धं पञ्चममणुव्रतं गृह्णामि, इत्थं परिग्रहपरिमाणं कृत्वा सम्यग्धर्म परिपालयन् गार्हस्थ्यं सुखं भुजानः सुखेन रत्नसारकुमारस्तस्थौ।
अथान्यदा रत्नसारकुमारः सह मित्रेण वनं ययौ। तत्रेतस्ततः पर्यटन्नेकं किन्नरयुगलमद्राक्षीत्। तस्य शरीरं मनुष्यस्य, मुखं तुरगस्येवासीत्, केनापि पुरा ईदृशमदृष्टपूर्वमश्रुतं च रूपं विलोक्य विस्मितः कुमारो मित्रं जजल्प। भो मित्र! पश्यैनम्, यद्यसौ मनुष्यस्तर्हि तुरगस्येव मुखं कथं दृश्यते, इति नायं मनुष्यः, न वा देवः, नूनमसौ द्वीपान्तरीयस्तिर्यक् प्रतिभाति, अथवा कस्यचिद्देवस्य वाहनेन भवितव्यम्, इति रत्नसारकुमारस्य वचनं श्रुत्वा किन्नर उवाच। हे रत्नसार! ईदृशालीकं कुतकं मयि मा कृथाः। यथा मामवगच्छसि, अहं तथा नास्मि, किन्तु विलासी स्वैरविहारी व्यन्तरोऽस्मि। भो रत्नसार! मया तु त्वमेव तिर्यक्तुल्यो दृश्यसे। यतः पित्रा प्रतारितोऽसि। कुमारोऽवक् - कथमहं पित्रा वञ्चितोऽस्मि, अहं नैव जानामि, त्वं जानासि चेत्कथय? सोऽवदत् श्रूयताम्-तव पित्रा द्वीपान्तरादेकस्तुरग आनीतः - स च