________________
श्री रत्नसारकुमार-चरित्रम्
।। श्री धर्मनाथजिनेन्द्राय नमः ।। ।। विश्वपूज्य - जैनाचार्य - श्रीमद्विजयराजेन्द्रसूरीश्वरेभ्यो नमः।।
श्री रत्नसारकुमार-चरित्रम्
धम्मधरो धीरधरो धरेसो, धम्मोवएसो सुणई सईसो । थवा हि तं जे धरई सयाहं, वंदे जिणंदं पुण धम्मनाह।।
राजेन्द्रसूरीश्वरसगुरूणां, पादारविन्दं युगलं प्रणम्य । तद्रत्नसारस्य चरित्रमेतत्, कुर्वे सुगद्यैः सरले. सुरम्यम् ||१||
इह भरतक्षेत्रे रत्नविशालाभिधाना महीयसी नगरी वर्तते। तत्र समरसिंहनामा राजा महीमशेषां शास्ति, तत्रैव महापुरे वसुसारनामा श्रेष्ठी निवसति, अस्य रत्नसारनामा पुत्रोऽस्ति। स चैकदा मित्रेण सह वनमागात्। तत्र वने महान्तं भास्वन्तमिव महसा ज्वलन्तं विनयधराभिधानमाचार्यमालोक्य समित्रो रत्नसारकुमारस्तत्रागत्य परया भक्त्या यथाविधि नमस्कृत्य त्रिःप्रदक्षिणां विधाय च तदभिमुखमुपाविशत्। अथ कृताञ्जलिः स तमेवमप्राक्षीत्। हे भगवन्! केनोपायेन जीवोऽसौ सुखमुपैति? सकलानि दुःखानि च विजहाति?, गुरव ऊचुः - हे भद्र! एष जीव इहलोके परलोके च केवलमेकेन संतोषेण परमं सुखमाप्नोति। स च द्विधास्ति, दैशिकः सर्वत्यागात्मकश्च। तत्राद्यः श्रावकाणां जायते। अन्तिमस्तु साधूनां भवति। सकलसुखसम्पादको दैशिकः संतोषः परिग्रहपरिमाणतयोच्यते। तदुक्तम् -
असन्तोषवतः सौख्यं, न शक्रस्य न चक्रिणः । जन्तोः सन्तोषभाजो, यद् भव्यस्यैव हि जायते ||१||