________________
श्री रत्नसारकुमार-चरित्रम् मनोहररूपेण तारुण्यलावण्येन मोहितः स तत्कालमेव तामपहृत्य शबरसेनानामकेऽरण्ये निनाय। तत्र च भृशं रुदतीमतिभीतां राजपुत्रीमवोचत्-सुन्दरि! मा भैषीः, मा रोदीः, मत्तस्त्रस्यसि कथं? किमर्थं गात्रं कम्पयसि? मां चौरं पररमणीलम्पटं हिंसकं वा मा वेदीः, किन्तु विद्याधराणां पतिं जानीहि। साम्प्रतं तावकाद्भुतलावण्यतारुण्यादिना वशंवदीभूय त्वामिदमेवाभ्यर्थये। यन्मां दासं विधाय सकलविद्याधरीणां स्वामिनी भवेति। तदाकर्ण्य सा राजपुत्री मनसि दध्यौ-धिग् धिक्कामान्धं पुमांसम्। यतः कामकिङ्करा नरा धीरा अपि विवेकविकला जायन्ते, जातिकुलादि-सर्वमपि विस्मरन्ति। इत्थं विचिन्त्य सा मौनमालम्ब्य तस्थौ। तदा स एवमवेदीत्-यदधुना मातापित्रोविरहाकुला न भाषते, पश्चान्मय्यनुरागं विधास्यतीति निश्चित्य विद्याबलेन तां राजपुत्री तापसकुमारं कृतवान्, पुनः स्नेहमयेन वचसा प्रीणयन् भृशं सत्कुर्वन् तामलोभयत्। परन्तु क्षारभूमौ बीजवाप इव तस्यां विद्याधरनृपस्य प्रयासो वैफल्यमेव ययौ। तथापि तस्य तस्यां जातोऽनुरागो मनागपि नैव न्यवर्तत। यतः कामकिङ्करीभूतो नरः कदाग्रहं न जहाति। तदाह - कदाग्रहग्रस्ततरो नरो वे, करोत्यकार्यं सहसा सदैव । विवेकरत्नं परिहाय नूनं, भवाम्बुधो मज्जति कर्मबद्धः।।१।। ___ व्याख्या - कदाग्रहग्रस्तो नरः सारमसारं च विवेक्तुं न समर्थो भवति परिणामतोऽविचार्य प्रायः कुफलदं कार्य करोति। ततो विवेकरत्नं विमुच्याशुभकर्माणि समुपार्जन् भवसमुद्रे दीर्घकालं ब्रुडति । ब्रुडन्तं पारावारे विवेक एव सन्मित्र उद्धारकश्च। यथा मन्त्रिणाराधिता कुलदेवताऽकथयत्, पुत्रं त्वं वाञ्छसि, किन्तु दुराचारी भविष्यति । तदा मन्त्रिणा कथितं तथास्तु किन्त्वेको
25