________________
श्री हरिबलधीवर - चरित्रम् स्थानात् क्वचिदन्यत्र स्थेयं, विभीषणाय निमन्त्रणमपि रुन्धि, यतो विद्याधरेन्द्रः कुत्रापि स्वीयं स्थानं नान्यत्र कुर्यात् । तावकमिहागमनं जातमतो निमन्त्रणमपि जातमेव । पश्चाद् विश्वासार्थं कुमारी गत्वा राज्ञश्चन्द्रहास खड्गमानीय हरिबलायार्पयत्। समर्प्य चाह खङ्गतोऽस्माद्बलवानपि रिपुः साध्यो भवत्येव, तद् बुद्ध्वा चमत्कृतो हरिबलः खङ्गं कुसुमश्रिया गृहसारभूतानि सुवस्तूनि सुधातुम्बिकां च समादाय योगीन्द्र इवाद्भुतशक्तिर्लङ्कातो निर्गत्यानिमेषदृष्टि भूतवृषभमन्दिरे सन्तिष्ठमानौ शिवाविव स देवो वृषभरूपं धृत्वा द्वावपि निजस्कन्धे समारोप्याध्वनि बहुकौतुकं दर्शयन् विशालापुरीवने समुत्तारयामास । अथ यदा हरिबलो निजगृहाल्लङ्कां जगाम; तदानीं तद्गृहे किं किं जातमिति वर्ण्यते
-
>
स कुटिलमतिर्भूपतिः सविकारो हरिबलीयां स्त्रियं ग्रहीतुमेव दास्यादिभिः सह तद्गृहे कुशलप्रश्नाय तस्याः प्रसादाय च नवानि शोभनानि वस्तूनि प्रेषयति स्म । अथ कदाचित्सा हरिबलस्त्री 'किमर्थं मे नवानि सुवस्तूनि प्रेष्यन्ते राज्ञेति दासीं पप्रच्छ। राज्ञा पूर्वमेव प्रतिबोधितास्ता दास्यो न विज्ञायते त्वया तावकीनः पती राज्ञः प्रसादभाजनं राज्ञा त्वदर्थमेव प्रेषितानि, अतस्त्वदुचितकार्याणि राजैव विदधाति' इत्थमुत्तरयामासुः । किं च सा वसन्तश्रीः राज्ञो दुरभिप्रायं ज्ञात्वापि राजप्रेषितसर्ववस्तुजातं स्वीकृत्य 'राज्ञो मयि महती कृपेति' दासीर्मधुरवाचोवाच। स च दुर्मतिः कामान्धो नृपतिः प्रतिदिनं नवं नवं वस्तुजातं प्रेषयतीत्थं बहुकालं व्यतीयाय । अथ कदाचित् कामवशीभूतो नृपो दासीभिर्वसन्तश्रियं समवेदयत्। 'मया तव भर्त्ता कपटं विधाय लङ्कायां प्रैषि, अतो मां त्वं भजेः । अहो यस्य कामवासना वर्धते स कमनर्थं विधातुं न शक्नोति!' अथ दासीमुखादेतादृग्वचनानि श्रुत्वा श्रोत्रे समुत्पन्नबहुव्यथेव तद्वचोऽसहमाना कथञ्चिद् धैर्यमवलम्ब्य
330