________________
श्री हरिबलधीवर-चरित्रम् राज्यलुब्धोऽनभिज्ञ इव मत्पाणिग्रहणाय शिथिलमना बभूव। सत्यमेव लोभवशीभूतो जनोऽन्ध इव किं किमनर्थं न विदधाति। तथाहि -
रत्तिंधा दीहंधा अच्चंधा मायगाणगोबंधा । कामंधा लोहंधा इमे कमेणं विसेसंधा ||१||
अतस्तदीयमेतादृगदुष्कर्माभिज्ञाय मे जननी तथाऽन्यस्वजनपरिजनो बहूद्वेगतामाप्य सर्वो जनो मम तातं पथिकः स्मशानदुममिव समजहात्। स च दुष्टकर्मकृच्छ्वपच इव मां प्रतिदिनं दुःखयति, अतिदुष्कर्मकारी सोऽत्र विद्याधरगृहं निर्मायावतिष्ठते। यदा च दुष्कर्म विधातुं कुत्रापि गच्छति बहिस्तदा मां मृतप्रायां कृत्वा व्रजति, पश्चाच्चागत्य पीयूषबिन्दुभिः स चेतयति, दुःखभरं दृष्ट्वा मरणोद्यता भवामि। यतोऽनार्यकार्यान्मृतिरेव वरीयसी, इदानीं त्वत्तो मे प्रार्थनैका त्वं चावश्यं मनोऽभीष्टफलदायी कल्पवृक्ष इव सामर्थ्यवान्। अतस्त्वं त्वदनुरागिकां मां पत्नीत्वेनाङ्गीकुरु। मम पूर्वपुण्योदयादेवेह ते समागमः। मम जीवनदानस्यासावेव हेतुः। आस्ते चेदानीं सुलग्नवेलाऽतो विलम्बं मा कुर्याः। इत्थंभूतकन्यावचः समाकर्ण्य हरिबलो विचारयति। सर्वमदो महत्त्वं केवलं जीवदयाया एव। यतो देवाङ्गनेव सौन्दर्ये विद्याधरीवेन्द्राणी तिरस्कुर्वतीयं कन्या विद्याधरमपहाय मामेवाङ्गीकरोति। अतो मे महद्भाग्यं, मयि प्रसन्नो देवः। इत्थं बहुशो विमृश्य तदीयं वचः स्वीकृत्य पाणिग्रहणमकरोत्। ततः स्नेहं दर्शयन्ती सा कुमारी तमेवमाह-अयि प्राणेश! यदि जीवनेच्छा स्यात्तर्हि हेयमवश्यमदो गृहं, इहावासोऽनर्थकर एव, यदि पुष्पबटुकोऽभोत्स्यत्तर्हि बह्वनथं व्यधास्यत्। इति स्वचित्ते निश्चित्यातः 1. श्वपच = चण्डाल। 2. बुध् (क्रियात्तिपत्ति)।
329