________________
श्री हरिबलधीवर - चरित्रम् राशीन् व्यलोकयत् । प्रज्वालनार्थं स्थापितां काष्ठराशिमिव सुगन्धिमयीं चन्दनराशिं क्वचित्, क्वचित्सबहुमूल्यदेवदुष्प्राप्याम्बरराशिं क्वचिच्छीतकालोचितरत्नकम्बलसदृशं बहुजात्यूर्णवस्त्रकम्बलराशिम्, क्वचिन्मृत्पात्रमिव मणिकनकभाजनानि क्वचिद्बहुविधयोग्यासनतल्पादि दर्श दर्श बहुशः साश्चर्यो जातः । अथैतादृक्समृद्धियुतं गृहं निर्जनं कथमिति विचारयन् गृहान्तराले प्रविश्य सौभाग्यादिगुणयुतां सुरूपवतीं नवयौवनां मृतप्रायां भूमौ शयानां काञ्चन सुकन्यां दृष्ट्वैव सविस्मयो व्यचिन्तयत्-अहो ! को जानीते दैवगतिं, क्व बहुसमृद्धिपूरितं गृहं, क्व चेयं शवतुल्या कुमारीति बहुखेदमावहंस्तत्र सुधापूर्णां तुम्बिकामेकां प्रेक्ष्य ततोऽमृतं किञ्चिन्निस्सार्य तच्छरीरे पातितवान्। ततोऽमृतस्पर्शादेव देवशयनोत्थितेव झटित्येवोदतिष्ठत्। ततोऽग्रे हरिबलं दृष्ट्वैव कृतप्रणामा सप्रेमाहअयि सुजन ! यत्त्वयाहमुपकृता, अतो निश्चिनोमि 'यदुत्तमो भवानिति, तथापि कस्त्वं कस्तेऽत्रागमनहेतुः ? क्व च निवासीति सर्वं स्वीयं वृतान्तमावेदय ?' ततः स ब्रूतेयदास्ते विशालाधिपतिर्मदनवेगनामा राजा, तदीयोऽहं सेवको हरिबलनामा च, तत्रत्यराजस्यातिप्रियो लङ्काधिपतिर्विभीषणस्तदर्थं निमन्त्रणदानाय संप्रेषितोऽहमत्र, किंचाहमहिंसाप्रतापतो देवेन मत्स्यरूपं धृत्वात्र पातितः । अथ स्वकीयं वृत्तमाख्याहि, श्रुत्वैव तदीयं वचो हर्षमावहन्ती कुमारिका नैजं वृत्तमाह यद्राज्ञो विभीषणस्य पुष्पबटुकनामा मालाकारः, स च मे पिता, किन्तु परिणामहीनो दुष्कर्मकारी । कुसुमश्री नाम्नी चाहं तस्य तनया । विद्याधरविषयहारिकां विषधर भोगिमणिमिव मां विलोक्य कदाचिन्मे पिता सामुद्रिकशास्त्रज्ञं कञ्चन दैवज्ञमाकार्य स पृष्टस्तेन । 'कीदृशं पतिं लप्स्यते मे तनया?' लप्स्यतेऽनया राज्याधिपतिभर्त्ता । इति श्रुत्वा मत्पिता 1. मनोहरा ।
,
328
-