________________
श्री हरिबलधीवर-चरित्रम् वाद्धिं दृष्ट्वैव सचिन्तचेतसा चिन्त्यते स्म। यत्कथं विलभ्योऽसौ वार्धिः? कथं वा गम्या लङ्का, न चात्र वर्त्तते काचन नौः, कार्यसाधनमन्तरा कथं पश्चात्पादनिधानं, यतोऽहं धीवरस्तत्रापि इयती मे महती प्रतिष्ठा! अहो! इदानीं कार्याकार्यविमूढस्य मे को वा हितकृत् सहाय्यकः स्यात्। यदधुना मदर्थमुच्चप्रतिष्ठानदायी मद्धीवरत्वापहारी यो देवः स चैतादृक्काले मम साहाय्यकश्चेद्वरं स्यादिति समुद्राभ्याशे क्षणं विमर्श विमर्श हृदि धैर्य चावलम्बमवलम्बं हे जीव! कातरत्वे कार्यसिद्धराशा दुराशैवेति भूयो भूयो विचारं कारं कारं मदीयं मरणं स्याज्जीवनं वा यद्भावि तद्भावि, मृतिरप्येकवारमवश्यैवेति, अवधारमवधारं सहसैव वाझै झम्पापातमकरोत्। अथ यावत्तेन झम्पापातो विधीयते तावत् वायधिष्ठातृदेवः पूर्वप्रदत्तवरप्रभावतस्तदन्तिके समागत्य सप्रणाम तमूचे-यत्त्वनियमफलप्रभावात्तुष्टोऽहं तावकं साहाय्यं करिष्ये, इति तदीयं वचोऽभिज्ञाय सोऽप्याह-यन्मया लङ्कापुरी गन्तव्याऽस्तीति। सोऽपि श्रुत्वैव तदीयं वचोऽङ्गीकृत्य हरितुल्यं हरिबलं शेषनाग इव स देवस्तं स्वीयपृष्ठे समारोप्याम्भोधिमार्गे संचलन् वायुदेववदल्पकालेनैव तं लङ्कोद्याने समपातयत्।। ___ अथ हरिबलोऽल्पकालं विद्याधरवनानि, सर्वर्तुफलानि, तत्रत्यगुमांश्च विलोकयन् प्रतिस्थाने परिभ्राम्यन् सुवर्णमय्यां लङ्कापूऱ्या प्राविशत्। स च लङ्काश्रियं तत्रत्यकौतुकांश्च संप्रेक्ष्य तृतिं नापत्। अत्रान्तरे किमपि कनकमयं सुभवनं समपश्यत्। तच्च कीदृगासीत्-क्वचिन्मेरुसदृशा घटिता स्वर्णराशिः, क्वचित् पाषाणतुल्या रजतराशिः, क्वचिद्धान्यराशिवन्मणिराशिः, क्वचिच्चणकानराशिवत्प्रवालराशिः, क्वचित्स्फटिकरत्नराशिः, क्वचिन्मरकतादिमणिराशिः, क्वचिन्नीलरत्नराशिरित्यादिविविधमणि1. समीपे। 2. आप (अद्यतनी)।
327