________________
__ श्री हरिबलधीवर-चरित्रम् कष्टवाद्धिं तरितुं बाढं नवा बाढमिति किमपि दासी ह-ततस्ता दास्यो राजान्तिकं गत्वा सर्वमुदन्तमवोचन्। तेनापि स्वीये हृदि विनिश्चितं, यत्तया नेति नोचे, अतो विज्ञायते साऽवश्यं मे स्वीकृताशयाऽभूदिति बहुधा विमृश्य प्रमुदितमनाः कामातुरः पुष्पधन्वनो धनुरिव स रात्रौ चौर इव हरिबलगृहमाजगाम। अतिकामातुरो नृपतिर्वसन्तश्रियं दृष्ट्वा परां प्रीतिमापत्। अथ पतिप्रिया सती, हरिबलप्रिया, नैनं विषादमन्तर्गोपयन्ती, राजानमालोक्य युक्तायुक्तं वचो विदधती, ससंभ्रमाऽऽसनादिभी राजानं सम्मान्यावोचत्-यद् भवदागमनान्मे महान् हर्षोऽजनीति। श्रुत्वैतत् स नृपतिर्बहु प्रजहर्ष। पातिव्रत्यान्विता सा मनोवचनकायादिभिः स्वशीलरक्षणायासतीवाऽऽचरतीति साधारणेयं जगतो दशा। अतः साप्यसतीवाऽऽचचार। स च स्वात्मानं बहु कृतार्थ मन्यमानस्तामित्थमाह-यदयि वसन्तश्रि! त्वदाकारणाय मेऽत्रागमः। अतो मया साकं शीघ्रमेव व्रज। यथा कनकमन्तरा रत्नं न भाति तथा त्वामन्तरेण मेऽन्तःपुरं न भाति। इत्थं श्रुतनृपतिवाग्जाला जातान्तबहुरोषा सा युक्त्या तं नृपतिं सम्बोधितवती-राजन्! यदात्थ तद्वरं हितकृत्सत्यं च। परं मद्गृहचिन्तको मद्भर्तृस्वामी भूत्वा नार्हस्येतादृशं वचो वक्तुम्। यावत् खलु सूर्योदयस्तावच्चन्द्रप्रभायाः प्रकाशं को नाम समीहेत। श्रुत्वैवं स विहस्याह त्वदर्थमेव खलु तव स्वामी मारणाय गहनसङ्कटे प्रेषितो मया। ततः स किं जीवन्नेव समायिष्यते, किं समुद्रपतितो जीवो जीवन् समायते? अथ जातु प्रतिज्ञां समुज्झित्य समायेत जीवन्नेव, तदाहं घातयिष्यामि केनापि व्याजेन तम्। अहो धिगेतादृशं कामिनरं यो गोप्यमपि निजाभिप्रायं वदत्येव। तथाहि1. सुन्दरं, तथास्तु। 2. वृत्तान्तः। 3. कामदेवस्य। 4. ब्रू २.ग.पर. द्वि.पु.ए.वर्तमान।
331