________________
श्री हरिबलधीवर-चरित्रम् त्यैकान्तप्रदेशे सुखसुप्तोऽभूत्।
अथ सा राजपुत्री निजकार्यसंसाधनाय स्वपितृभ्यां कलहमापादयन्ती पृथगेवावात्सीत्। पश्चात् सङ्केतितदिने नानाविधरत्नाभरणवासोमुख्यवस्तुजातं सङ्ग्रह्याश्वमारुह्य द्वारमायाञ्चक्रे। ततः प्रागद्वाररक्षकाय रत्नमुद्रादि समर्प्य कपाटाधुद्घाटयाञ्चक्रे। देवीमन्दिरे च गत्वा निर्वाचं हर्षमुद्वहन्ती हरिबलमाह्वयाश्चक्रेअयि! अस्तीह कश्चित् पुण्यवान् हरिबलाभिधः। देव्या इव दिव्यालङ्कारभूषिताया घोटकाधिरूढायाः कुमारिकायाः सुधामयीं वाचमाकर्ण्य सोऽपि बहु हर्ष मन्वानः सविस्मयः सहर्षचेता मन्दिराऽधिष्ठितकन्या सन्तोषाय हुङ्कारशब्दं प्रोवाच। श्रुत्वैव सापि प्रियप्राणनाथ! झटित्येव सज्जीभूय समेतु? अद्य हि विदेशगमनाय सफलीभूतो नौ मनोऽभीष्ट इति तं संव्याजहार। अथ हरिबलो निजहृदीत्थं निरचैषीत्-यन्मन्नामा कश्चिद् द्वितीयो हरिबलस्तु नास्ति यत्तदर्थ सङ्केत इति प्रतिभाति मे, किं च परिश्रममन्तरा स्त्रीप्राप्तिः, मां च प्रीत्याऽऽकारयति अतस्तया सह कुतो नैमि। पुण्योदयादेवैतादृशी घटना भवतीति मे निश्चयः। इत्थं बहु विमृश्य मन्दिरतो निर्गच्छन् तदाननप्रत्यक्षीभूयाग्रे चलितुमारब्धवान्।
अथ स धीवरो निजचेतसीत्थं विचिन्तयति-एतनिखिलमेव केवलं जीवहिंसाऽकरणादेव। यथा तन्निर्वाहाय हिंसां विदधानो हि यस्तां विजहाति, स एव पश्चाद् दरिद्रोऽपि राज्यं लभते, तथाहमपि पूर्व मीनवधाय जालोपरि जालं प्रसारयन् तमजहामत एतादृक् सुखमनुभवामीति। अथ हरिबलं गजाश्वरहितं प्रेक्ष्य सा राजपुत्री तमित्थमाह-कथमीदृशस्त्वं?, किं तावकं वासो वाहनादिकमपाहार्षीच्छ्रुत्वैवं स व्यम्राक्षीत्-इदानीं मे मौनावलम्बनमेव वरीयः, इति निश्चित्य हुङ्कारमात्रमेव व्याहार्षीत्। निजस1. निश्चितवान्। 2. न एमि। 3. अप+अ+ह+सीत्।
320