________________
श्री हरिबलधीवर-चरित्रम् र्वद्रव्यविनाशी असौ, इति निश्चिकाय सा। अतस्तदर्थमनुशोचन् हुकारमात्रमेवायमभिधत्ते, इति स्वीये हृदि विमृश्य तस्मै वासोलकारादि परिधानार्थमर्पयामास। अथ तां सोऽभ्यधात्, यत्केनापि गणयितुमशक्य एतावान् मे पार्श्वे द्रव्यनिचयोऽस्ति। मद्विषये सर्वथा चिन्ताऽकार्या भवत्या, भाविनी खलु नौ मनोऽभीष्टसिद्धिः। यथा विमर्शी जनः स्वप्ने गतं धनं न शोचति तथा त्वं मदर्थ माऽशोचीरित्थं विचिन्त्य तेन सत्रा विनोदार्थ प्रेमान्वितवचो विदधती सा यत् किमप्यभिधत्ते, तच्छ्रुत्वा विचिन्तयति सः, सर्वत्रैव मे हुङ्कारमात्रमेव फलदमिति विमृश्य भूयो भूयो हुङ्कारमात्रमेवोत्तरयामास। सापि शङ्कामदधाना स्वहृदि विचारयति-यत् किमसावज्ञः? उताहंयुः, यतो हुङ्कारमेव मुहुर्मुहुाहरति। यद्वा सरोषो मय्येव, किमर्थं मां सम्यग् न ब्रूते। किं च भूयोऽपि सा विचारयतियतोऽयमुन्मार्गगन्ततोऽस्य स्थाने कोऽप्यन्य एव नास्ति किम्? अस्य लक्षणाय (ज्ञानाय) नोपायान्तरं किञ्चिदपि, इत्थं शङ्कया व्यथितहृदया यावद् +धुरि संक्रामति तावद्धिमांशुधुतिमेकं निजमनोऽनभीष्टदं कञ्चन पुमांसमद्राक्षीत्। निरीक्ष्य चैनम्, हा हेति शब्दायते स्म। वज्राघातताडितेव बहुविधां व्यथां लभमाना सा राजपुत्रिका विचिन्तयते - हन्त! अहो धिग् विधातारं येनाहमुभयतो भ्रष्टीकृता, साम्प्रतं पङ्कपतितहस्तिनीवाहम्। यतः -
निदाघे हा! धातः प्रचुरतरतृष्णातरलितः, सरः पूर्ण दृष्ट्वा त्वरितमुपपातः करिवरः । तथा पङ्के मग्नस्तटनिकटवर्तिब्यपि यथा, न तीरं नो नीरं द्वयमपि विनष्टं विधिवशात् ॥ तथा मे पूर्व निजपितृतो विप्रयोगो राज्यश्रीत्यागो लोकविरुद्धा
1. सह। 2. अथवा 3. अहङ्कारी। - उद्धतगत्या गन्ता। 4. मार्गेऽग्रे गच्छति सति। 5. वियोगः।
321