________________
श्री हरिबलधीवर-चरित्रम् जातं, पश्चात्सा राजपुत्री मन्मथवधूरूपा कामोत्पादिकौषधिरिवाऽऽसीत्। एवंभूतां तां प्रेक्ष्य तयोमिथो रागप्राबल्यं समजायत, सङ्केतं च चक्रतुस्तौ - 'यत् कालीचतुर्दश्यां तिथौ द्वाववश्यं दूरदेशान्तरं गच्छेव।' राजपुत्री चोक्तवती-अहं कृष्णचतुर्दश्यां नक्तं कञ्चन व्याजं विधाय देवीदर्शनाय देवीनिकेतने समायास्ये त्वया च तत्र गत्वाऽवश्यं स्थेयम् इति सङ्केतं निश्चिक्यतुः। ततः कामरागाद्विनीतः शिष्य इव यद् राजपुत्र्याह-तन्मन्यमानो व्यवहारिपुत्रो हरिबलो निजगृहमाव्रज्य सङ्केतदिवसं विज्ञाय समागते तद्दिने धीवरो हरिबलो देवालये समागत्य सचिन्तः सपीडः सुष्वाप। अथ कर्मानुसारिणी बुद्धिर्भवतीति स (व्यवहारिपुत्रः) निजचेतसीत्थं बहु विचिन्तयामास- "यदियं बाला मनोभवग्रहग्रस्ता, किञ्च नाहं कामग्रस्तः, बलवती स्त्री प्रच्छन्नकार्यकी भवति, साम्प्रतं च रात्र्यवसरः सोऽपि पापकर्मसाहाय्यकः पश्चान्मे सुखं स्यादिति केनाऽदर्शि? किं वाहमपराधकृत्स्याम्, मत्पित्रोश्च विप्रयोगः स्यात्, यदि भूपतिश्चावगच्छेत्, मामवश्यं सङ्घातयेत् इत्यादि बहु विमृश्य सत्यामपि बह्वभिलषितायां मनसि भूयसी भीतिं मन्वानो पश्चात्स्वगृहे समाययौ। वणिग्जातौ स्वाभाविकी भीतिरेव। उक्तं च - स्त्रीजातो दाम्भिकता, भीलूकता भूयसी वणिग्जातौ । रोषः क्षत्रियजातो द्विजजातो स्यात्पुनर्लोभः ||१||
अतो वै यः स भीकः स इह सौख्यभाङ् न स्यात्, परत्र च स्वात्महितकृतौ नालं भवेत्। तस्य चेदृक् क्व भाग्यम् यः पूर्णभाग्यो यस्य च तया सार्धं प्राग्जन्मसम्बन्धः स एव तां परिणयेत। अस्मिन्नेवावसरे धीवरो हरिबलोऽपि तद् देवीदेवालयमध्ये समाग1. मदनपीडिता । 2. भीरुता।
319