________________
श्री हरिबलधीवर-चरित्रम् न पालयन्ति। किञ्च स्वीकृत्य ये परिपालयन्ति ते धन्याः। एतादृशो जगत्यां विरला एव। अतो हि त्वनियमदाढ्यं विलोक्यातीवाहं प्रहृष्टः। अतोऽभीष्टं वरं वरय? यदेव त्वं याचिष्यसे तदेवाहं दास्ये। अथ श्रुत्वैवं सहर्षो हरिबलोऽपि वरं प्राह-देव! 'यद्येव मयि काचिदापत्तिः समापतेत् तदानीं ततोऽहं हाप्यः।' अलमनेनैव सुवरेण, देवोऽप्यद उररीकृत्य वरं प्रदाय तिरोदधे।
ततो हरिबलो मत्स्यालाभात् स्वस्त्रिया भीतो नगराबहिः कस्मिंश्चिद् देवालये समागत्येत्थं व्यचिन्तयत्, यद् मयि शङ्काद्वयं समुपजायते, तयोः पूर्वं त्वहं जात्या धीवरः, अथान्यद्धीवरस्यापि सतो मम द्रागेव नियमफलावासिः तत्कथम्? यथा-चक्रवर्ती नृपोऽहर्मुखे पलाण्डु वपेत् सायं चाहरेत्, तथैकजीवदयातो देवः प्रहृष्य मह्यं वचः प्रादात्। तद् यदि सर्वजीवेषु दयां कुर्याम् तर्हि कियन् मे फलं प्रादुर्भूयान्नाम। अतो धन्येषु धन्यतमः सः, यो जीवानुद्धरेत्। अहो धिङ् मां योऽहं सर्वथा जीवान् हन्मि, यदि कथङ्कारमपि मे जीविका निर्वाहो भवेन्नाम तदहं सुकृतविनाशिनीमिमां हिंसाविषलतां तदानीमेव परिजहामि। यो ह्यस्मिन्संसारे धर्मफलमद्राक्षीत्, निजप्रकृतिभद्रश्च स एव कल्याणभाक्। अथ यावद्धरिबल एवं विचिन्तयति तावत् किमाश्चर्यजनकमभूदित्याह. अथ जातु राजपुत्री गवाक्ष उपविष्टाऽऽसीत्, एतद्येव रूपेण मारोपमो हरिबलस्तद्गवाक्षस्याधस्ताद् भ्राम्यन्निस्ससार। दृष्ट्वैव तं सा राजपुत्री, तस्मिन् सरागाऽजनि व्यचिन्तयच्च स्वीये हृदियदयं हरिबलो मामको भर्ता भवतु चेत्, मे मनोऽभीष्टसिद्धिः स्यादिति विचिन्त्य चेत्थं निजमनोऽभीष्टभावं सुदले विलिख्य तद्गन्तव्यवर्त्मनि तद्दलं प्राक्षिपत्। पतितं दलं विलोक्य व्यवहारिपुत्रो हरिबलो ह्युपरि व्यलोकयत्। तदानीं तयोर्दृष्टिमेलनं 1. हा+णिग् = छुडाने योग्य है। [कृत्य] प् आगम। 2. कामदेवोपमः।
318