________________
श्री हरिबलधीवर-चरित्रम् तदीयां वाचमाकर्येत्थमाह मुनिः-यदि सर्वथा त्यक्तुं नार्हस्त्वं तीत्थमवश्यमेव विधातव्यं त्वया, यत्पूर्व यो मत्स्यस्तदानाये समागच्छेत्, स जीवन्नेव हेयस्त्वया, यदसौ नियमः सुरीत्या स्वीकरिष्यते, तर्हि यथाऽम्भसां सेचनाद् न्यग्रोधाङ्कुरो विस्तारमापद्यते, तथा व्रतमयो वृक्षः शुद्धभावरूपजलसेचनेनानन्तातुलफलप्रदः। ईदृशीं मौनी गिरं श्रुत्वा तन्नियमं सुयोग्यं मन्यमानो हरिबलस्तव्रतं सहर्ष स्वीचक्रे।
ततो निजात्मानं कृतार्थ मन्यमानो नदीगम्भीरजले नैजं जालं प्रसारयामास यदैव। तदानीमेव तनियमातुलफलप्रदर्शनायैको महान् मत्स्यो जाले समापतितः। अथ लोभसमूहं हात्वा जाले समागतं मत्स्यं तदानीमेव निजनियमपरिपालनाय मत्स्यगले डोरिकामेकां बद्धवा जले प्रचिक्षेप। क्षेपणान्ते च स एव मीनो जाले प्रसार्यमाणे पुनरपि समापतत्। दृष्ट्वैव स धीवरो हरिबलो भूयोऽपि तं जले विससर्ज। एवं यावद्वारं वारं जालोपरि जालं प्राक्षिपत्। परं तमेव मीनं विज्ञाय तत्स्थानं विहायाऽन्यत्र जालप्रसारणायोद्युक्तो बभूव। पुनरपि स एव मीनो जाले समायातः, पुनः पुनरेतादृग्दुःखमनुभवन्नपि किञ्चिन्मात्रं पश्चात्तापमनाप्नुवन् नियमं च स्वीयं दृढीकर्तुमापत्तावपि धैर्यमत्यजन् सन्ध्याकाले यावत्तमेवं मीनं जले सम्पातयति तावत्स मीनो मनुष्यवाचोवाचअयि साहसिक! साहसात्त्वयि प्रहृष्टोऽहमतो मनोऽभिलषितं मां याचस्वेति। तदीयं वचः समाकर्ण्य हरिबलो विस्मयान्वितं इत्थमचकथत। यन्मत्स्यो भवंस्त्वं मह्यं किं दातुमर्हसि? स चोवाच-मा मां मत्स्यमेव विद्धि, लवणसमुद्राधिष्ठातृदेवं मां जानीहि। इदानीं तावकीनां दृढनियममर्यादां व्यलोकयम्। यतो भूयांसः सुपुमांसो व्रतनियमं स्वीकुर्वन्त्येव नहि, भूयांसो गृहीत्वाऽपि 1. तस्मिन् आनाये = जाल।
317