________________
श्री हरिबलधीवर-चरित्रम् अथास्मिन्नेव पत्तने निजप्रकृतिभद्रः पयोजालप्रसारणदक्षः कश्चिद् हरिबलाभिधो धीवरः प्रतिवसन्नासीत्, तस्य चानार्यशिरोमणिः परिणामदुःखभावा सत्या नाम भार्या ततो हरिबलोऽहर्निशमुद्वेगत्वमापन्नः स्वप्नेऽपि शर्माऽलभमान आसीद्। यथाहिकुग्रामवासः कुनरेन्द्रसेवा, कुभोजनं क्रोधमुखी च भार्या । कव्याबहुत्वं च दरिद्रता च, षड् जीवलोके नरकानि सन्ति ||१||
अथ जातु हरिबलो नदीतीरे कञ्चन मुनिं विलोक्य 'नमस्कारोऽस्तु' इति व्यधात्। मुनिरूचे-भद्र! को धर्मो विज्ञायते त्वयका?, स चोवाच-यो वै मामकः कुलाचारधर्मस्तमेव विजानीमो न च धर्मान्तरं विजानीमः, अतः स एव धर्म एकाग्रचित्तेन समाराध्यते मयका। श्रुत्वैवं मुनिर्व्याजहार-यत् स धर्मस्तु कथनमात्रमेव, त्वं तमेव धर्म मुख्यं मन्यसे, किन्तु नायं मुख्यो धर्मः। को नाम वै कुलधर्मः? इति निश्चयं त्वया। यदीयो जनको दुर्भाग्यवान् दुराचारवान् दुर्विनीतो दासत्वेन गो हीनः कुलाचारसेवी च। यश्च तदीयो डिम्भः स किं विजानीयात्? सोऽपि तादृगेव कर्म कुर्यात्? किन्तु मतिमान् जनो नामुं कुलाचारधर्म जानीयात् । किञ्च मुख्यो धर्मस्तु स एव यो जीवदयाधर्मविषयको भवेत्। योऽहर्निशं जीवरक्षकः स एव मनोऽभिलषितप्रदमन्दारद्रुमः। यश्च पुमान् प्राणिनो हन्यात्, स शाश्वतदुःखभाग्भवतीति निश्चय एव। केवला जीवदया त्वनेकदुःखापसारिका, तथाऽनेकसुखप्रदायिका च। अतस्त्वं सुखावाप्तिमीहसे, तर्हि रे धीवर! जीवदयायां सोद्यमेन भवितव्यं त्वया। श्रुत्वैवं स धीवरः परां प्रीतिमावहन् मुनिं प्रोवाच-स्वामिन्! सेव्योऽयं दयाधर्मः, परं किं करवाणि, मदीयं मात्सिकं कुलं, यथा रङ्कगृहे भोजनाऽन्योन्यं तथा धीवरगृहे जीवदयाऽन्योन्यमिति। 1. कल्पवृक्षः । 2. मत्स्याः पण्यं यस्य (इकण्)
316