________________
श्री बुहद्विद्वद्गोष्ठी प्रसाद्योऽस्मकाभिरिति। एतावत्कालपर्यन्तं वयं कस्मिंश्चिदपि विषयेऽगण्या आस्म, किञ्चेदानीं महान्तोऽभूम। अतोऽमुकानमुकान् कायकर्तृन्मिलतु भवकान्, तेषां सङ्गत्यैव राजमेलनमपि भावि।' अथेयं राज्ञी सर्वराजनियमज्ञात्री चासीत्, अतः सा सुविद्या महिषी सर्व राजनियमं सम्बोध्य कथञ्चित्तं राजान्तिकं प्रेषयामास। यथा सुविद्यया पूर्व बोधितस्तथैव राजानं मिलित्वा पश्चात्स्वभवनं प्रतिनिवृत्त्य सर्ववृत्तान्तं तामाह। ततो गतायां कियत्यां वेलायां तया पुनरपि स प्रेरितः, इत्थं कतिपयवारं तं सोऽमिलत्, येनाखिलवृत्तान्तज्ञो भूत्वा राज्ञोऽधिकं परिचितो जातः।
ततो भूयोऽपि सा पितरमवादीत्-यदेकवारं राजानं स्वगृहे भोजय? वक्तव्यश्च स भूपस्त्वया-यदनुचरस्यापि गृहं कदाचिद् गत्वा सुशोभितव्यं, पादपद्मेन च पवित्रितव्यम्। इति निवेदिते काष्ठविक्रेतरि भूयो भूयोऽपि, स्वीकृत्य तद्वचोऽमुकदिने समायास्यामीति तं संव्याजहार। ततः सोऽपि गृहमागत्य सुविद्यादेवी यथावदुवाच। अथ सापि स्वचातुर्येण स्वभवनमेतादृक् सुसज्जितं चक्रे, यद् राज्ञो महाराजस्येव वा प्रतिभाति, तथैवाखिला सर्वसामग्रीमपि प्रगुणीचक्रे, स्वबुद्धिमत्तया च राज्ञो रुचिकरं भोजनं निर्ममे। ततः क्ष्मापोऽपि तद्भवनमागत्य तत्रत्यां शोभां समीक्ष्य सम्भुज्यातीव प्रससाद, विसिष्मिये च। यत्कालात्सा सुविद्या राजभवनाद् गता, ततः प्रभृति भूयोऽपि स्वगृहे न तादृशानि भोजनानि बुभुजे। अत एव बहु प्रसद्याप्राक्षीत्-जगच्छ्रेष्ठिन्! किं तवापत्यम्? तेनाप्युत्तरितम्-राजन्! अस्ति पुत्रद्वयमेका धर्मपुत्री च भवत्कृपातः, किञ्च भवद्दर्शनार्थं ते साभिलाषाः। राजाहयद्येवं तर्हि समाकारय तान्, श्रुत्वैवं पुत्रद्वयी समागत्य तं प्रणनाम।
अथ भूपतिः पुत्रीमप्यपृच्छत्, श्रेष्ठिनोचे-स्वामिन्! सा त्वपवरके वर्त्ततेऽतो भवता तत्रैव गत्वा तस्यै दर्शनं दत्त्वा सा
308