________________
श्री बृहद्विद्वद्गोष्ठी कृतार्थ्या। श्रुत्वैवं राजा समुत्थाय तत्र जग्मिवान्, साप्युत्थाय नृपतिं साष्टाङ्गप्रणामं सादरं सञ्चक्रे। ततो नरपालस्य तस्याः स्वरूपमवलोकयत एव निजमहिष्याः सुविद्यायाः स्मृतिराजगाम। यत इयमपि तत्स्वरूपा, इयं सुविद्येव प्रतिभाति परमियं स्वात्मानं जगच्छ्रेष्ठिनो हि पुत्रीति भणति तत्कथं संघटते?, किं चेदमवश्यं यतोऽस्या वयःसुविद्यया सम्मिलति जगच्छ्रेष्ठिनश्च वयस्तत्पुत्रसमानं प्रतिभाति। पुत्री हि पितृतो ह्रस्वा मातृस्वरूपा च, अतो नेयं कदापि तत्पुत्री, अवश्यं चात्र कोऽपि हेतुः। इत्थं विचिन्तयत एव नृपतेः पादपद्मे सुविद्याऽपसत्, अगदच्च-मा सर्वथा कृत सन्देहं भवान्, नाहं श्रेष्ठिपुत्री, किश्च भवत एव पादपद्मसेविका, सर्वमिदं निजवचनख्यापनाय सत्यकरणाय च मयैवाचरितो व्याजः, स एवायं काष्ठविक्रेता दरिद्रः पुमान्, सैवाहं सुविद्या नाम भवन्महिषी। दास्याश्चापराधो भवद्भिः क्षाम्यो रक्षितव्यश्च सर्वथा सेवायाम यमबलाजनः, इयन्ति च दिनानि भवद्वियोगेनाहं महता कष्टेन समर्यादं धर्मपूर्वकं व्यत्यैषिषम्। ततो राज्ञापि श्रुत्वैवं तदीयं वचो बहु त्रेपे, राज्ञी च गृहीत्वा स्वगृहं सञ्जग्मे, जगच्छ्रेष्ठिने च स्वराज्याधं समर्प्य स्वसमानं विदधे। अथान्ते स भूपतिः सा राजमहिषी, स च जगच्छ्रेष्ठी काष्ठविक्रेता सपरिच्छदो भागवती दीक्षां जगृहे, निर्दोषं च संयमं प्रपाल्य शाश्वतसुखेन विललास। अयि भव्याः पाठकाः! यथेयं राजमहिषी स्वं स्वसहवासिनश्च समुद्दधार, तांश्च सद्गुणिनो विधायेह परत्र च सुखीचक्रे। एवमेवेहाऽन्या सद्गुणा स्त्री बहुविधा व्यक्तीः सुखेनैव समुद्धत्तुं शक्नोति, नात्र कैरपि कथञ्चन सन्देहो धार्य इति।
- भूयोऽपि धनपालो जगाद-यदवसरोचितवचनकथनेऽपि विविधाः प्रशस्या गुणाः। स्त्रीपुरुषाः कियतीमपि विद्वत्तां कलाकौशल्यप्राप्तिं च कुर्युर्नाम, किञ्च यावत्तेषु नोचितावसरवचन
309