________________
श्री बृहद्विद्वद्गोष्ठी
रूप्यकैः काष्ठानि क्रीत्वा तानि वस्तूनि निर्मापितानि यानि द्विगुणचतुर्गुणमूल्येन व्यक्रैषुः ।
इतः स काष्ठविक्रेता वस्तूनि द्विगुणमूल्येन विक्रीय तत्रत्यानि च बहुविधानि वस्तूनि समानिनाय, यानि सहसैव द्विगुणचतुर्गुणेन विचिक्रिये। यानि च रूप्यकाणि जनानामुधारकेण गृहीतानि तानि सव्याजकानि तेभ्यः समर्ष्यावशिष्टानि स्वगृहे रक्षितानि । अथ स्वल्पैरेवाहोभिर्दशविंशतिसहस्ररूप्यकाणि गृहे सञ्जातानि, ततोऽन्यतो ग्रहणस्यावश्यकता नाभवत् । 'किञ्चित्कालानन्तरमिदानीं स्वरूप्यकैर्व्यवहारो न व्यवहर्त्तव्यः, एकदेत्थमेव पुनरपि निजधर्मपिता देशान्तरे प्रेष्यः, यदा भूयोऽपि लाभः स्यात्तदा तत्पश्चान्न कथङ्कारमप्यन्यतो रूप्यकाणि ग्रहीष्ये' इति सुविद्या सम्यग् विचार्य मासद्वयानन्तरं संलेखकेन सार्धं स्वपितरं पूर्ववद् बहुविधानि वस्तूनि सम्भृत्य संप्रेषयामास । ततोऽस्य श्रेष्ठसाधुकारेषु महती प्रतिष्ठा समजनि, कथनमन्तरैव सर्वेऽनेकविधानि वस्तूनि यानेषु सम्बभ्रुः। इतः कस्मिंश्चिद् द्विजकुले निजधर्मभ्रात्रोर्विवाहाय सम्बन्धं संयोज्य तौ विवाहयामास । यदाऽस्याः काष्ठविक्रेता धर्मपिता विदेशतो निवृत्तस्तदा प्रथमतोऽप्यधिको लाभो बोभवीति स्म । ततः कतिपयपत्तनेषु महत्यो विपणिका उद्घाटिताः, सुविद्याप्रभावतश्चातीवप्रख्यातः शनकैर्जगच्छ्रेष्ठिपदवीविभूषितो बोभवामास। अथाऽवसरज्ञा सुविद्या निजहृदि 'अवसरोऽसौ राज्ञो निजवचनप्रख्यापनाय यन्मद्वचसः सत्यत्वमसत्यत्वं वेतीत्थं बहुधा विचिन्त्य निजधर्मपितरं बभाण- 'इदानीं भवकान् लोके' 'जगच्छ्रेष्ठी' इति निगद्यते लोकैः, देशदेशान्तरस्य चाऽलभ्यानि वस्तूनि भवद्गृहे समायन्ते, कानिचिच्छोभनानि वस्तून्यादाय राज्ञे चोपायनीकर्त्तव्यानि यतोऽयं स्वीयो धर्मः, यत्स्वदेशाधिपः 1. भेंट।
307
-