________________
श्री बृहद्विद्वद्गोष्ठी अस्याश्चाखिलपत्तने त्वेतादृशी ख्यातिरभवत् येनोत्तमजनवधूबालिकानां गृहे गच्छन्ती कतिपयोत्तमगृहेभ्यो मासिकं वेतनं चापि लेभे, श्रेष्ठिप्रभृतिगृहगमनादस्याः प्रतीतिरपि ववृधे । चेत्पञ्चाशच्छतादिमुद्राणामावश्यकता भवेत्तल्ला भेऽपि योग्याऽभवत्। अथेयं यदेदृशी सञ्जाता तदा कतिपय श्रेष्ठिकान् मिलित्वा स्वनाम्नो वस्तुजातं तद्रूप्यकैर्गृहीत्वा तैरेव च पुरुषैरेकं संलेखकं भृत्यीकृत्य स्वपितरं तेन सार्धं कृत्वाऽऽह - 'इदमखिलं वस्तुजातं दूरदेशान्तरं गत्वा विक्रीणीहि तत्रत्यानि च स्वल्पमूल्यकानि समर्घ्याणि वस्तूनि समानय' इति व्यसर्जयत् । अथ धर्मभ्रातरावुवाच- 'युवामिदानीं श्रेष्ठ्यादिसत्पुरुषेषु तिष्ठथ उत्तिष्ठथश्च, युवाभ्यामित्थं वर्त्तितव्यं यत्कोऽपि पुमान् निजचित्ते कथञ्चनापि काञ्चनापि घृणां मा कार्षीत्, स्वपार्श्वे च युवां संस्थापयन् मा सङ्कोचीत्, अत इत्थं विधेयम् पूर्वं तु वासार्थमुत्तमगृहस्यावश्यकत्वम्, यस्मिंश्च याः काश्चनोच्चकुलस्त्रियः समागत्य सुष्ठुतया सभ्यतया चावतिष्ठेरन्, अतः प्रथमं कस्यचिच्छ्रेष्ठिनो हम्र्म्यं भाटकेन ग्राह्यम्, येन मत्स्थितिरपि योग्यस्त्रीपुरुषेषु प्रशस्या स्यादिति' तत एकं श्रेष्ठिहम्र्म्यं भाटकेन ग्राहयित्वा तस्मिन् समे तस्थुः । अथ काष्ठव्यापारो यद्यपि सर्वथाऽधमः, तथाप्ययं सर्वथाऽत्याज्य एवेति मनसि निधाय सुविद्यादेवी पुनरुवाच- 'अस्मिन् काष्ठराशी तु स्वल्पो लाभः काष्ठविक्रेतारं च 'काष्ठविक्रयाः ' एवाभिधीयन्ते । अत एव कतिपया रथकारा रक्षितव्यास्तैश्च शालनिम्बप्रभृतिपादपानां काष्ठैर्मञ्जूषादिवस्तूनि निर्माप्याणि, रूप्यकाणां च यावतामा - वश्यकता भवेत्तावन्ति कार्यालयादुधारकेण ग्राह्याणि । नदीतीरस्थमहावनाद् सुकाष्ठानि च्छित्त्वा छित्त्वा समानाययितव्यानि येषां च काष्ठानां वस्तून्यपि शोभनानि भवेयुः' इति विविच्य कस्माच्चिच्छ्रेष्ठिनो रूप्यकसहस्रद्वयीमुधारकेणाऽगृह्वात् । ततोऽमीभी
306