________________
श्री बृहद्विद्वद्गोष्ठी पितृपुत्रयोर्मूर्ध्नि संस्थाप्य विक्रेतुं प्रेषीत्। भारत्रयीत्वाच्च तान्येव काष्ठानि त्वद्य दशपणैर्विक्रीयन्ते स्म। अथ तेषु दशपणेषु षट्पणैर्भोजनसामग्री समानाय्याऽऽणकैकं पेटिकायां प्राक्षिपत्।
द्वितीयदिने च सा सुबुद्धिः सुविद्या तदीयात्मजद्वयीमपि किञ्चिद् दत्त्वा प्रलोभ्य तेनैव पित्रा साधं काष्ठानि सञ्चेतुं विक्रेतुश्च सम्प्रेष्य स्वयं च स्वसमीपस्थगृहे चूर्णपेषणाय संलग्ना। अयं च काष्ठविक्रेता प्रतिदिनं पक्वामेव रोटिकां समानयति, किं च तद्दिनेऽपि यदैकैकं पणं प्रदायाप्याणकैकमवशिष्टम्, गृह एव भोजनसम्पादनात्सर्वेषामुदरपूर्तिश्च जाता। तदाऽवशिष्टपणानां तूलिका समानाय्य स्वपार्श्वस्यगृहे तस्यास्तूलिकायाः सूत्रं निष्पाद्य व्यक्रेषीत्। इत्थं विदधत्यास्तस्यास्तस्मिन्मासे रूप्यकैकमवशिष्टम्। अथ गते कियति काले सा तेन रूप्यकेण काष्ठविक्रेत्रे चैकां कुठारिकां मूल्येनानाय्याऽभ्यधात्-यत्प्रतिदिनमेकैकलघुकाष्ठसञ्चयेन लघूनि स्वल्पानि च काष्ठानि समायन्ते, किश्चाऽनया कुठारिकया छेदं छेदं महान्त्येधांस्यानय, यतस्तानि महान्ति काष्ठानि बहुमूल्येन विक्रीयेरन्, स्वयं च स्वपार्श्वस्थगृहतः सूचिकाकर्त्तरिकासुवस्त्राद्यानीय शिरस्त्राणादि कर्तुमारभत। ततः कतिपयगृहेषु मेलनं विधाय यस्य वस्तुन आवश्यकता भवेत्तद्वस्तु याचित्वा, स्वकार्य च कृत्वा पश्चात्समर्पयति। कस्यचिद् बालस्य शिरस्त्राणं सीव्यति, कस्यचिदङ्गरक्षणम्। काशविरेचनादिरोगाणामौषधि निर्माय निर्मूल्यमेवार्पयन्ती सर्वेषामेव मान्याऽतिवल्लभा चाजनिष्ट। एवमिदानी प्रतिदिनं पञ्चषडाणकानां काष्ठानि विक्रीयन्ते, द्वित्रिचतुराणकानां शिरस्त्राणादीनि विक्रीयन्ते, स्वल्पदिनैरेव कतिपयानि रूप्यकाण्येकत्रीकृतानि। इत्थमेव मतिमत्या तया कतिपयानि रसवतीपात्राणि क्रीतानि, स्ववासगृहमपि संलिप्य स्वच्छीकृतम्। स्वयमपि सा शिरस्त्राणादिकार्य कुर्वती पार्श्वस्थजन
304