________________
श्री बृहद्विद्वद्गोष्ठी दर्शयिष्यामि च राज्ञे स्ववचनसंस्तवमित्येवं बहु विचिन्त्य तद्गृहे गतवती, गत्वा च तत्र सप्रश्रयं व्याजहे-भो पितः! त्वं मां स्वगृहे रक्ष, भवच्छुश्रूषां कुर्वती शुष्करूक्षादिभोजनेनैव स्वनिर्वाहं विधास्ये। स आह-अहं स्वयमेवैकादशी कुर्वे, यस्मिन् दिने काष्ठानि विक्रीयन्ते, तस्मिन् दिने कथकारं रोटिका लभे। यस्मिंश्च दिने तानि न विक्रीयन्ते, तद्दिने तु बहुधाऽऽखवोऽपि विदधत्येकादशीम्। सा जगाद-यत्किञ्चनापि मद्भाग्यस्य भविष्यति तदवश्यं प्राप्स्यति नात्र सन्देहः। एतादृशीं तस्या वाचमाश्रुत्य काष्ठविक्रेताऽभणन्-यदेवं तर्हि यथाहं सन्तिष्ठे, तथा त्वमपि मया सह सुखदुःखभाक् सन्तिष्ठस्व, विधिस्त्वद्भाग्यस्यापि कवलं दास्यत्येव। को वा जानीते यत्त्वद्भाग्येनैव ममापि कवलं स्यादिति।
अथैवं राजपुत्री महानिपुणत्वात् काष्ठविक्रेतृसदृशं भारमेकत्रीचकार। अन्यदिने तु स काष्ठविक्रेता काष्ठानामाणकैकमलभत, किन्त्वद्यत्वाणकद्वयं लभते स्म। यद्येव स काष्ठभारमादाय प्रतस्थे, तर्खेव सापि स्वशिरसि काष्ठभारं संस्थाप्य प्रचलितवती। या च काष्ठविक्रेतुः स्त्री सातीवस्वभावक्रूरा, अहर्निशं गृहे कलहायतेऽत एव तस्या नाम कुबुद्धिरिति। दूरादेव समायान्तीं तेन सार्धं तां समीक्ष्य 'अद्यैतावान् कथं लम्बो विलम्ब इति, वयं हि क्षुत्क्षामकण्ठा भवामोऽमूनि त्वदपत्यानि च बुभुक्षया पीड्यन्ते' इत्यभिधाय चित्ते किमप्यन्यदेवाऽचिन्तयत्। सर्व तस्या भावस्थं विदित्वा सा सुविद्या सप्रश्रयमूचे जननि! अद्यान्यदिनापेक्षया काष्ठान्यपि त्वधिकानि वरीवृत्यन्तेऽत एवाद्य लम्बो विलम्बः। अनेन मत्पित्रा च मयि दयां विधाय मह्यं जीवदानं प्रदाय त्वच्छुश्रूषायै चाहं नीता, अस्मिन् कोपं मा कृथाः, विलम्बहेतुरहमेव। इत्थं माधुर्यवचोभिस्तां यथावच्छमयित्वाऽऽनीतकाष्ठभारं त्रिधा विधाय 1. आखु-चूहा। 2. दुर्बल।
303