________________
श्री बृहद्विद्वद्गोष्ठी पुनरस्मिन् कुतो वैपरीत्यं यदसौ महादरिद्रः। अथ तैर्बहुधापि समुत्तरितो नृपतिर्न समतुषत्, किं चेदमेव विमृशन् स सुविद्यान्तःपुरे जग्मिवान्। सुविद्यापि यथोचितं सादरं ससत्कारं सकटाक्षं पूर्ववद् भूपमनःसमाह्लादयितुमैषीत्। किञ्च भूपालं सोदासीनं कस्मिंश्चिदपारविचाराकूपारे निमग्नं विज्ञाय परीपृच्छयते स्म। बहुधोपेक्षमाणमपि राजानं कथञ्चित्कथिताखिलवृत्तान्तं, पुनः समुत्ततार-यदिदं तु स्वाभाविकं यतस्तद्गृहे तदीया स्त्रीर्मूढा स्यात्, अत एव स सर्वदा निर्धनः सचिन्तापरश्च। यद्गृहे स्त्रियो नहि गृहशोधनको बहुशयनशीलाः, निजभर्तुकथनप्रतिकूलाः, प्रतिकार्यकरणकाले तल्लाभहानिसाध्वसाधुविचाराऽनभिज्ञाः, स्वगृहस्य सुव्यवस्था तथा निजगृहीयवस्तूनि च नहि सम्यक्तया संरक्षन्ति, तद्गृहस्थनराः प्रायो दुःखभाज एव भवन्तीति। नैतद्विषये कस्यापि सुलग्नस्य सुमुहूर्तस्य वा कोऽपि दोषः, किञ्च यदि गृहे स्त्रियः सुपठिताः सुप्रबन्धविधात्र्यश्च भवेयुस्तर्हि तद्गृहस्थ-मनुजोऽपि नहि दुःखभाग् मूढत्वभाग् च भवेन्नाम। उक्तं च - यस्यास्ति भार्या पठिता सुशिक्षिता, गृहक्रियाकर्मसुसाधने परा | स्वाभाविकं धर्मधनार्जनं च, करोति निश्चिन्तमथो हि मानवः ||३०|| ___ अथैवं सुविद्यादेवीवचः समाकर्ण्य स भूपोऽतीवसंक्रुध्य 'भावत्कं राज्यादिकं मबुद्ध्यधीनमेव' इति सगर्वा तां स्वसदनान्निष्काशयामास। नैतदाश्चर्य यतो नृपाणामियमेव दशा। तथा चोक्तम् -
राजाग्नियोगितोयानां, विपरीतं हि वर्तनम् । यो वसेन्निकटे तेषां, स्वल्पा प्रीतिर्भवेदिह ||३१||
अथ सुविद्यापि तस्यैव काष्ठविक्रेतुर्गृहे गत्वा स्थास्यामि, 1. समुद्र।
302