________________
श्री बृहद्विद्वद्गोष्ठी
किञ्च वस्तुतो यैर्न विद्याऽधीता, न तपस्ततम्, न दानं दत्तम्, न सच्चारित्र्यमाप्तम्, न कोऽपि प्रशस्यो गुणोऽभ्यस्तः, न च धर्मोऽनुष्ठितस्ते निर्गुणिनो नरः संसारे स्वपरहानिकर्त्तार एव । अतो निर्गुणानां जनानां विषये नीतिज्ञाः 'ते के? न जानीमहे' इत्येवमुक्त्वा विरेमुः। अतोऽयं संवादः सर्वान् सूचयति-यन्निर्गुणिने नराय संसृतौ न काऽप्युपमा, अतस्तेऽधमाऽधमा एव विज्ञेया इति ।
अथ प्रतिपुरुषैर्गुणोपार्जनाय सोत्साहकैर्भवितव्यमेव खलु। गुणाप्तिश्च सत्सङ्गमन्तरा नैव भवति । यतः सत्सङ्गत्यामनन्तगुणाः प्राप्यन्ते, दुर्जनसङ्गतौ च भूयसी हानिर्भवति । यथा -
ज्ञान बढ़े गुनवान की संगत, ध्यान बढ़े तपसी संग कीने, मोह बढ़े परिवार की संगत, लोभ बढ़े धन में चित्त दीने । क्रोध बढ़े नर-मूढ की संगत, काम बढ़े तिय के संग कीने, बुद्धि विवेक विचार बढ़े, कवि दीन। सुसजन-संगत कीने ||२९||
सत्सङ्गत्या च निर्गुणिनोऽपि राजवेश्यावत्सगुणा भवन्तीति । तथाहि - कदाचिदेको महात्मा तपस्वी क्लिन्नगात्रः पङ्कलितश्च कस्यचिद् हर्म्यतले गत्वा तस्थौ । तच्च भवनं राज्ञो वेश्याया आसीत् । अतिशैत्येन कम्पितगात्रं तं तपस्विनं प्रेक्ष्य काचनवेश्याचेटिका स्वस्वामिनीं सर्वं वृत्तान्तमचकथत्। अथ वेश्यापि 'गच्छ शीघ्रं तं तपस्विनं समानय?' इत्युक्तवती । चेटिकापि शीघ्रमेव तं समानैषीत् । ततो वेश्या सादरं तं संस्नप्य वासांसि च परिधाप्य सप्रेमाऽबूभुजत्, ततः स्वयमपि भुक्त्वा तदन्तिकमेत्य तं च पर्यङ्के सुष्वाप्य तत्पादावमीमृदत्। अवीवहच्चाऽथ महात्माप्येकदृष्ट्या तां विलोक्यैव तद्धृदये वैराग्यपीयूषधाराम्। स च 1. नृ ( बहु . ) । 2. संसारे ।
299