________________
श्री बृहद्विद्वद्गोष्ठी सुष्वाप, सा तु रात्रौ तत्पादौ चम्पितवती, किश्चान्तिमनिशायां साऽशयिष्ट। स तपस्वी चोत्थाय चचाल। प्रत्यूषे चोत्थिता वेश्या निजदासीं 'महात्मा क्वाऽगमत्?' इत्येवमप्राक्षीत्। तया चोत्तरितम्- 'स तु गतः' इति। ततस्तदानीमेव सा वेश्या गृहानिर्गत्य तपस्विनी भूत्वा नगराबहिः कस्यचिद् वृक्षस्याऽधो गत्वाऽस्थात्। नृपतिश्चेदं वृत्तान्तं शृण्वन्नेव तां समानेतुं कर्मकरान् प्रेषीत्। साऽवदत्-नाहमिदानीं 'भवद्गृहस्थगूथशोधिका' इति गदित्वा सा क्वाऽप्यन्यत्र विजहार। अतः सत्यं महात्मनां क्षणकालिक्यपि सङ्गतिर्महापापानि विनाशयति, कारयति च परमां समुन्नतिम्।
अथात्मिकोन्नतिरपि केवलं पवित्रमहत्त्वाकाङ्क्षादिभिरेव जायते। स एव मनुजो, योऽनवरतमुच्चविचारेषु परिभ्राम्यति। येषां हृदात्ममनस्सु सदा शुद्धाः स्वार्थशून्याश्च विचारा बोभुवति, निश्चितं ते मध्याह्नकालीनभानुवज्जाज्वल्यमानाः, पूर्णचन्द्र इव माधुर्यपीयूषपूर्णाः, ज्ञानवन्तः सदाचारिणश्च। ते तत्स्थानं लभन्ते, यतोऽस्मिन् संसारे बहुप्रतापशालिनं प्रकाशं प्रकाशयन्ति, शान्तिसुधां चापि वर्षन्ति। स्वार्थत्यागं विना न कथञ्चिदप्युनतेः प्रासिन चापि साफल्यप्राप्तिर्भवितुमर्हति। मनुष्यस्य सांसारिकविषयेष्वपि तदनुसारेणैव साफल्यं भविष्यति, यदनुसारेण स स्वविषयविकारादिविचारान् संहरिष्यति, स्वमनश्च निजप्रयत्नोपायेषु स्थिरीकरिष्यति, स्वप्रतिज्ञातस्य च दाढ्यं प्रददानः स्वावलम्बी भविष्यतीति। ___यो निजविचारान् यावदेवोच्चैः करोति, तावदेवाधिकमनुष्यत्वदृढत्वधर्मपरायणत्वादि प्राप्नोति, तस्य च साफल्यमपि तावदेव श्लाघनीयं भवति। एवंभूतस्य श्रेष्ठमनुजस्योन्नतिश्चिरकालं स्थिरायते, स पुमानपि धन्यो बोभूयतेतरामिति। 1. विष्ठा। 2. भू. (यङ्लुप्) ३ पु. बहु. वर्तः।
300