SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ चतुर्थ-प्रस्तावः श्री चम्पकमाला-चरित्रम् एवं विक्रमादित्यो नरपतिस्तदितरेऽपि सभ्यास्तां सती बहुधा प्रशशंसुः। युज्यते चैतत्-"गुणयोगात्के सद्भिर्न प्रशस्यन्ते" तया परीक्षया सर्वाशाविस्तृतशोभाशालिनी सतीमतल्लिका चम्पकमाला सतीगणनायां प्राथम्यमयाञ्चक्रे। तद्दिनादस्याः सतीत्वमाहात्म्यं सर्वत्र लोके समैधत, शीतांशोः सुधामयी कलेव लोकानामाह्लादिका सुखावहा च जज्ञे सती चम्पकमाला। तदनु वसन्तौ काननं काम इव सह तेन सार्थवाहेन विक्रमार्को राजाऽनुक्रमेणोज्जयिनीमाययौ। सखेदास्ते चत्वारो मन्त्रिणोऽपि तां सती चम्पकमाला कृताऽपराधं क्षमयित्वा स्वस्वसदनं गन्तुमुत्सुकास्तदा दातृणां शिरोमणिश्चम्पकमालापि सहर्षपूर्वमङ्गीकृतं धनं तेभ्यः प्रत्यार्पयत। अपि च सुधास्यन्दिन्या गिरा तान्मन्त्रिणः सा तथोपदिष्टवती यथा ते तत्कालमेव परस्त्रीरिरंसामत्याक्षुः। अहो! "महासत्या विदुष्या महिमा महीयान्भवति, येन तेऽनार्या अपि मन्त्रिण आर्याश्चक्रिरे।" ततः कुलदेवीमिव तां सती चम्पकमालां वारम्वारं नमस्कृत्य तस्या उदारां गुणावली कीर्तयन्तस्ते चत्वारो मन्त्रिणः स्वस्थाः सन्तः निजनिजालयमापेदिरे। सार्थवाहोऽपि तस्या महासत्याः सङ्गत्या सौशील्यमुपेयिवान्। अथैकदा तत्रोजयिन्यां पुयाँ भव्यजीवानां पावनाय सुखाय च श्रीसिद्धसेनदिवाकरः सूरीश्वर आगात्तदाकर्ण्य मेघागमेन केकीव प्रहृष्यन् पुलकितरोमराजी राजा नितरामतुष्यत्। तदनु महा शुभभावभावितमना नरनाथो गुरुवन्दनायै निरगात्, इतरेऽपि महान्तो जनास्तत्रावसरे तदर्थं तेन सत्रा सहस्रशो ययुः। अस्मिन्नेवावसरे निजसुजनजनमण्डलमण्डितः प्रियया सहितः सार्थवाहोऽपि धर्मदेशनां शुश्रूषुस्तत्रागात्। तदा सूरिदिवाकरो भव्यजीवपद्मवनं विबोधयन्तीम्, अज्ञानतिमिरनिरस्यन्ती, सुधा 280
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy