________________
श्री चम्पकमाला-चरित्रम्
चतुर्थ-प्रस्तावः स्यन्दिनीं धर्मदेशनां प्रारेभे। तथा हि
अर्थाः पादरजःसमा गिरिनदीवेगोपमं यौवनं, मानुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवितम् । धर्म यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं, पश्चात्तापहतो जरापरिंगतः शोकाग्निना दह्यते ||४||
व्याख्या - भो भव्याः! इह दुःखदावानलसन्तसे संसारे अर्थाः= सम्पत्तयः पादरजः समाः = पादयोश्चरणयोर्लग्नानि यानि रजांसि धूलयस्तेषां समास्तद्वत्क्षणिकाः, यौवनं = तारुण्यं गिरिनद्यास्तदुद्भूतायाः सरितो यो वेगस्तस्योपमा साम्यं यस्मिंस्तादृशमस्ति। अर्थात्पर्वतोद्भूतसरितो वेगो महान् भवन्नपि यथा चिरस्थायी न भवति तथा जीवानां तारुण्यमपि चिरं स्थाष्णु नो जायते। यदिदमतिदुरापं मानुष्यं = मनुष्यजन्म तदपि जलबिन्दुवल्लोलचपलमतिचञ्चलमस्ति, एवं जीवितं = लोकानामायुरपि फेनोपमं - अब्धिकफेनस्योपमा तुलना यस्मिंस्तथा वर्तते तद्वदेव विनश्वरमस्ति, अस्माद्धेतोर्यो नरः = पुमान् निश्चलं दृढं चित्तं यस्य स दृढमनाः स्वर्गाऽर्गलोद्घाटनं = स्वर्गार्गलस्य देवलोकादिप्रातिप्रतिपन्थिन उद्घाटनं वारकं धर्म न करोति स नरः पश्चात्तापेन हतः = कृतपश्चात्तापो जरया परिगतः = शिथिलीकृताऽशेषाऽवयवः शोकानिना दह्यते = दुःखीक्रियते।
भुजन्ता महुरा विवागविरसा किंपागतुल्ला इमे, कच्छूकंडूयणं व दुक्खजणया दाविति बुद्धिं सुहे । मझण्हे मयतिहि अव्व निययं मिच्छाभिसंधिप्पया, भुत्ता दिति कुजोणिजम्मगहणं भोगा महावेरिणो ||३|| व्याख्या - इमे किम्पाकफलतुल्या आदौ मधुरा विपाकेऽवसाने
281