________________
चतुर्थ-प्रस्तावः
श्री चम्पकमाला - चरित्रम् निद्राति = शेते दिवानिशम् । भाषाकविताकारेणाप्युक्तम् - जलधार के संग कला चपला, अरु नीर के संग कुमोदनरी, अहिभच्छन संग हलाहल को बल, प्रेमल पोन लगी विहरी । विसतार हुतासन संग ध्रुवां, यह रीत प्रवीन बनाय धरी, विरहा दुखदान सनेह के संग, बढे मनुवा मनकी लकरी ||४२ ॥ प्रेमहु को मदपान कियो बहु, जो करवे की नहिं सो करेगो । शौच विचार किये की कहा, जरवे मरवे से कछू न डरेगो । चातुर के गति वाउरे की गहिं, दीपक लेकर कूप परेगो । तेज सबे सटके घटके वह, सागरजू भटकोई फिरेगो ||४३||
अतस्त्वादृशा सुमित्रेणापि मदर्थमकार्यमप्याचरणीयमेव। सति च विप्रयोगे गुणवतः सख्युः पुनः सङ्गतिः स्यान्न वेति ?, को जानीयादतस्त्वमिदानीं मामकं सङ्गमं मा त्याक्षीः ?, निजस्त्रीकृते कदाचित्ते मनसि समौत्सुक्यमुद्भविष्यत्यतस्तामपि सहैव नीत्वा चल?। सार्थेशो जगाद प्रभो ! जन्मभूमेस्त्यागः सर्वस्यापि क्लेशाधिक्यजननाद्दुष्कर एवास्ति, तथापि त्वत्प्रेमपाशबद्धोऽहमवश्यं त्वत्सत्राऽऽगमिष्यामि । यतः - "मनुष्याः पतिव्रतां स्त्रियं, सम्पदि विपद्यपि तुल्यक्रियं सखायं, सत्यप्रेमवान् स्वामीत्येतत्त्रयं च भाग्यं विना नैव लभन्ते ।" इत्थं व्याहृत्य निजसदनमागत्य कमपि सकलगुणसंयुक्तं सखायं गृहादिनिभालनादि कर्त्तुं निगद्य कियद्भिः सेवकैः सह सतीमचर्चिकया चम्पकमालया सहितः सार्थपतिस्तत्र राज्ञः शिबिरे समायातः।
अथ जाते च प्रभाते ससैन्यः क्षितिपतिमुकुटमणिविक्रमो नरनाथस्ततः प्रतस्थिवान् । मध्याह्नवेलायामति श्रान्तसैन्यैः सह क्वचिदेकत्र रम्यस्थले शिबिरं व्यधत्त । तत्र पक्तुमुद्यतान् पाचकान् नरपाल एवमाख्यत्-पाचकाः ! अलमिदानीं पाकेन, एते यक्षा 1. सतीषु श्रेष्ठया ।
276