________________
श्री चम्पकमाला - चरित्रम्
चतुर्थ-प्रस्तावः एव सकलां भोजनसामग्रीमिष्टां पर्याप्तां दास्यन्ति । तदनु यथावदर्चनं विधाय ज्ञानपटीयान् नरनाथो विधिवत्स्नातानुलिप्सः पेटिकामुन्मुद्र्य तत्स्थान् यक्षान् धूपदीपादिसकलोपचारैरभ्यर्च्य कृताञ्जली राजा जगाद - भो यक्षाः । प्रसीदत, पूजां मे गृहणीत, यथा पुरा सार्थवाहाय रसवतीं बहुविधां पर्याप्तामदिषत तथाऽधुना ससैन्यस्य भोजनपर्याप्तां रसवतीं मेऽर्पयत?, त्वदर्पितया रसवत्या सर्वेषां क्षुधां श्रान्तिं च व्यपनीय परिभोज्य च त्वच्छक्तिं निजविवेकं च साफल्यं नयेयमिति ।
अत्रावसरे त्रपया पीडया च व्याकुलीकृतास्ते यक्षरूपधरा मन्त्रिणः, विक्रमादित्यं व्याहत्तुं लग्नाः- स्वामिन्! न सन्ति केप्यत्र यक्षाः, ये तव रसवतीं दद्युः, वयं तु तव सेवका ये पुराऽत्रागतास्ते स्मः, तानस्मान् किं नो लक्षयसि ?, प्रभो! ये पुराऽत्र सार्थेशपत्नीशीलपरीक्षणार्थमायातास्त एव वयं भवता सत्रा रममाणा मन्त्रिणः स्मः । यथा क्षेत्रे धान्यरक्षायै गृहोपरिष्टाच्चोलूकनिरोधकृते चञ्चां स्थापयति, तथायं सघनः सार्थवाहो नः कृतवान् यक्षान् क्षेत्रस्थां चञ्चामिव । नः सत्यभूतयक्षान्मा वेदीः, किन्तु कार्यविशेषतस्तेन मुधैव यक्षीकृता वयमत्र तिष्ठामः । नाममात्रेण जात्वप्यसद्वस्तु सत्यतां नाप्नोति, होलिकापर्वणि जनैः कृता नृपाकृतिरिव तात्त्विकरूपं वास्तविकं तत्कृत्यं वा नाधिगच्छति । प्रभो! त्वत्प्रसादफलभूतदासदास्यादिसकलसुखसामग्रीमापन्ना अपि वयममुष्य सार्थेशस्य सद्मनि किङ्करा इव पुराकृतकर्मयोगादननुभूतमशेषं कष्टमसहामहि। तस्मान्न वयं देवताः स्मः, किन्तु पूर्वप्रचितगृहश्रीविनाशका नूनं तत्रभवतां सेवका एव स्मः । अतो भाग्यवशात्कथमपि प्राणान् दधतोऽस्मान् गृहाण, कृपां विधेहि, पुरेव प्रसीद। प्रागपि यदपराद्धमस्माभिस्तदपि क्षम्यताम्। अत्रावसरे
277