________________
श्री चम्पकमाला-चरित्रम्
चतुर्थ-प्रस्तावः विधाय निजसेवकैस्ताश्चतस्रोऽपि मञ्जूषा उत्पाट्य सदस्यानीय नृपाग्र उपहृतवान्, व्याहृतवांश्चैवं-स्वामिन्! येषां जिघृक्षा भूयसी किलाऽऽसीत्, त एतेऽतिमहान्तः सकलाभीष्टफलदाः पेटिकान्तस्थाः यक्षा आनीताः, तिष्ठन्त्वेते सदैव भवतः सन्निधावेव, पिपुरतु च वः समीहितान्यशेषाणि। यथा वा विधातुर्भुजदण्डः सृष्टिं रचयति तथैते प्रभुणा मार्गितानर्थान् सर्वान् साधयन्तुतमाम्। परन्त्वेते यक्षाः कार्यकाल एव सदवसरे पूज्यन्ते, तदितरकालेऽर्चादिविधानेन फलमददानाः कुप्यन्त्येवेति सत्यं जानीहि। ___ इति निशम्य राजा तमेवमाख्यत्-सार्थेश! त्वं खलु महादुरवापानेतान्' यक्षान् प्रदाय यावज्जीवं गाढमिदं नेहमचलं चकर्थ। इह लोके बाह्यवृत्त्या कृत्रिमं नेहं भूयांसः स्वार्थकसाधनरता मनुजाः कुर्वन्त्येव, ईदृशालीकसखानां संख्या तु जगति भूयस्येव वर्ति, किन्तु आन्तरबाह्योभयवृत्त्याऽकृत्रिमस्निग्धप्रेमकारी त्वादृशो जनो विरल एव मामकी दृशमारोहति। यद्यपि चिरादागमनान्निजगृहदारादिमोहादधुनाऽत्रैव ते स्थितियुज्यते, तथापि मनसो वात्सल्यात्त्वां सहैव निनीषुरस्मि। यस्माद् गुणानुरक्तं सद्भावभाजमतिस्निग्धसखं त्वां क्षणमपि पृथक्कत्तुं मदीयं हृदयं नैव प्रभवति। प्रेम्णः किमकार्यमस्ति?, यदाह - किमकरणीयं प्रेम्णः, फणिनः कथयापि या बिभेति स्म।
सापि गिरीशभुजङ्गफणोपधानेन निद्राति ||४१||
व्याख्या - प्रेम्णः = नेहस्याकार्य किमस्ति?, किमपि नेति। एतदेव दर्शयति - या भवानी पुरा फणिनः = सर्पस्य कथयापि= नाम्नापि बिभेति स्म = अबिभेत् सापि = सैव भवानी साम्प्रतं गिरीशः = शिवस्तस्य भुजङ्गः = शेषस्तस्य फणामुपधानीकृत्य 1. दुःखेन अवाप्यन्ते
275