________________
चतुर्थ-प्रस्तावः
श्री चम्पकमाला-चरित्रम् प्रभोर्जिष्णोस्ते कथं तद् भक्ष्यामि?। यदुक्तम्
मीयतां कथमनीप्सितमेषां, दीयतां कथमयाचितमेव । तं धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसरं सहते यः ||४oll
व्याख्या - एषामर्थिनामीप्सितं हृद्यं कथं मीयतां = जानीयात्, अथवाऽयाचितमेव स्ववाञ्छितप्रकाशनमन्तरा कथं दीयतां = दीयेत?, एवं सति यो दाता वाञ्छां = दित्सां कलयन् = दर्शयन्नपि, अर्थिनां वागवसरं = तदीयाऽऽभ्यर्थनां सहते तं= दातारं धिगस्तु, य ईप्सितं = दातुमना अपि तस्मिन् याचमाने दास्यामीति विलम्बयति स सतां श्लाघ्यो न भवितुमर्हति, अतो याचकयाचनां विनैव तदीप्सितं दातव्यम्।
प्रभो! किमधिकं निगदामि-सेवकानां यदस्ति तत्र स्वामिनां स्वामित्वमन्यथा सिद्धमेव तत्र मनागपि मा संशयीथाः। अहं सेवकः, त्वं तु सेव्योऽसि, अतस्त्वादृशेभ्यः प्रभुभ्यो मादृशां सेवकानामदेयं किमस्ति?, नैवास्ति। प्राणा अपि सत्यपेक्षणे दीयन्ते तर्हि यक्षाणामर्पणं किं चित्रम्?, अत एव यद्रोचते तदसंशयं गृहाण?, एता यक्षा भवतामभीष्टसिद्धिकरणेन साफल्यमिग्रतुतमाम्। सम्प्रति प्रभोस्ते चरणपङ्कजाः सैन्यगणमलकुर्वताम्। अहमचिरादेव यक्षानेतान् पेटिकान्तर्निधाय तामादाय शिबिरे समागच्छामि, इति सार्थवाहेन व्याहृतं श्रुत्वा प्रहृष्टः क्षितीशः सपरिवारः कटकमायातः।
तदनु महत्यामेकस्यां चन्दनादिसुरभितैलयोगेन सुरभीकृतायां विशिष्टानेकचित्रचित्रितायां सरससुमिष्टनानाविधाहारनिभृतायां मञ्जूषायामेकमपरस्यामीदृश्यां तस्यामपरं तृतीयस्यां तृतीयं चतुर्थ्यां पेटिकायां चतुर्थमिति रीत्या चतुरस्तांस्तासु निक्षिप्य मुखं सार्गलं
274