________________
श्री चम्पकमाला-चरित्रम्
चतुर्थ-प्रस्तावः सेवकोऽस्ति, अत एनमहं कथं याचेय?, यतो हि "महतां मादृशां सेवकं प्रतियाचनमवश्यं लघुत्वस्यैव हेतुर्भविष्यति।" यदुक्तम्
याचनं महतां तत्र, लघुता कारणं ध्रुवम् । ततो न याचितव्यं हि, जात्वपि भ्रमतोऽपि वा ||३||
व्याख्या - अत्र = संसारे महतामुन्नतानां पुंसां याचनं = याचा लघुतायाः कारणं ध्रुवमवश्यं भवति, अर्थात्-याचनान्महीयानपि लघीयान् भवति, ततस्तस्मात्कारणात् जात्वपि कदापि भ्रमतोऽज्ञानात् वाऽथवा अपिना ज्ञानतो हि-निश्चितं न याचितव्यम्।
अन्यच्चबलि भब्भत्थणि महु-महणु लहुई हूमा सोइ । जह इच्छह वडप्पणउं, देहु म मग्गउ कोइ ||३९||
व्याख्या - (सोइ) सः (महुमहणु) मधुमथनः = श्रीकृष्णः (बलिअब्भत्थणि) बलेरभ्यर्थनाद्याचनात् (लहुइ) लघुः (हुआ) अभूत्, अतः कारणात् (जइ) यदि (वडप्पणउं) महत्त्वं (इच्छह) इच्छथ, तर्हि मह्यम् (देहु) देहि इति (कोइ) कमपि (म) मा (मग्गउ) याचस्व।
अथापि सज्जनाः परेषामुपकृतये याचन्त एव, मेघाः सागरं वारीव। इत्थं चिन्ताकुलीभूतो यक्षग्रहणसमासक्तचेता विक्रमार्को नरनाथो महताऽऽग्रहेण सार्थवाहमवोचत्-मित्र! अहमिदानीं तावकीनामीदृशीमलौकिकीमद्भुतां यक्षकृतां सम्पदमालोकमान एतान् यक्षांस्त्वामभियाचे?, यद्यपि चिन्तामणिकल्पानेतान् यक्षान् दातुं न प्रभविष्यसि, तथापि लोलुप्यादभ्यर्थये, तन्मुधा मा कृथाः। इति क्षितिपतौ निगदति सति सार्थवाह आह स्म-स्वामिन्! कथमेवं ब्रवीषि?, अहं खलु कस्यापि याचनं नो भनज्मि तर्हि सेव्यस्य
273