________________
श्री चम्पकमाला - चरित्रम्
चतुर्थ-प्रस्तावः तत्रावसरे गृहद्वारमुपागते राजेन्द्रे सुरभीकृतैः कुङ्कुमाक्तैस्तण्डुलैः सुरभिसुमैः सुवर्णैर्मौक्तिकैश्च सार्थवाहपत्नी नरपालमभ्यर्च्य वर्धापयामास। ततो राजेन्द्रमुच्चैस्तरे शुभासने मनोहरे समुपावेश्य शतपाकादिमहासुरभितैलं तदङ्गे मर्दयामास यथास्थानं लघुमध्यमोत्तरहस्तव्यापारेण राज्ञः सर्वगात्रं संमर्द्य तन्मनः प्रासीसदत्। ततस्तदङ्गे यक्षकर्दमादिविशिष्टं चूर्णं विलिप्य पश्चादुष्णोदकेन स्नपयाञ्चक्रे । तदनु स्वच्छेन पेशलकौशेयेन वसनेन तदङ्गं निर्जलीकृत्य, कर्पूरकस्तूरिकादिमिश्रितचन्दनं राजाङ्गे सुलिप्य, कर्पूरागुरुदाहजातसुरभिधूपेन तदीयं सीमन्तं धूपयित्वा, सुरभिप्रत्यग्रसुमजातमालया विभूष्य गङ्गावारिमिश्रितयामुनं कल्लोलमिव चूडामबध्नात्स सार्थवाहः । ततो जातिमत्स्वर्णवर्णकाश्मीरजकेशरकर्दमेन भाग्यलक्ष्म्याः श्रेष्ठपट्टोपमे नरपालविशालभाले तिलकं रचयाश्चक्रे। तदनु नृपस्य मनःसदने निवसन्तीनां धीही श्रीणामान्दोलनाय झूलनखट्वेव कण्ठार्पिता सुमाला शुशुभेतराम् । तदनन्तरं यत्र यक्षीकृता मन्त्रिण आसन्, तत्रैव सदने राजानमसावनयत्। मुधा यक्षीकृतांस्तान्मन्त्रिणो नमस्कृत्य सार्थवाहोऽभ्यधात् - भो यक्षाः! एते मे प्रभवः सपरिकराः भोजनाय समुपागताः, अतो यूयं तूर्णमेव तत्परिवेषणाय सामग्रीः समर्पयत ? ।
अथ तेऽपि कृत्रिमयक्षास्तत्कालमेवाऽगणितानि तदर्हासनानि स्वर्णमयानि राजतानि च स्थालानि लघूनि गुरूणि च पानपात्राणि कल्पतरव इव तस्मै ददिरे। तदनु सुपक्वान्यतिमिष्टानि द्राक्षाकोटाऽक्षोटजम्बीराऽऽम्रादिदिव्यानि राशीकृतानि फलानि तिरस्कृतामृतस्वादूनि, सुकोमलानि माधुर्यभराणि घृतपूराणि, शष्कुलीः, अपूपान् सिंहकेशरियामोदकान् प्रीतिकरान् खर्जादिमिष्टपदार्थान्, पुञ्जीकृताऽमृततुल्यरसान् कमनीयतमान् शर्कराघृतचूर्णपूर्णपा
1. पुष्प ।
271