________________
चतुर्थ-प्रस्तावः
श्री चम्पकमाला-चरित्रम् संशयं यूयं करिष्यथ चेद् युष्मानहं नरकाद् घोरान्धकाराज्जीवानिवाऽवश्यमुद्धरिष्यामि गर्तादमुष्मात्। लेशतोऽपि ततो विपरीतं करिष्यथ चेदत्रैव गर्ते पुनर्निधास्यामि। तदुक्तिमाकर्ण्य ते समूचिरेभोरभयप्रद! यथा निगदिष्यसि तथैवाऽऽचरिष्यामः, तदुल्लङ्घनं नैव करिष्यामो वयमिति तथ्यं जानीहि, परन्त्वस्माद् गर्तात्तूर्णमेव चिरपरिभुक्तपापफलानतिदुःखितानस्मानुद्धर। त्वं महीयसामपि श्लाघ्योऽसि, समेषां नमस्योऽसि, यतस्ते सतीमतल्लिकेयं विदुषी प्राणवल्लभा विधिनाऽकारि।
अथाचिरादेव तन्मध्यात्तान्निष्काश्य शुद्धेन वारिणा सुसप्य तेषां गात्रेषु सकलेषु रक्तचन्दनं कर्पूरादिसुरभीकृतमलिस। ततस्तान् यक्षानिव तद्गात्रेषु यक्षकर्दममनुलिप्य बहुविधैः कुसुमैः संशोभ्य महती मालां च परिधापितवान्। ततस्तान् गृहमध्यभागे स्थापयामास, तत्सन्निधौ ताः सकलाश्च भोज्यसामग्रीः स्थापितवान्। पुनस्तेभ्य एवं शिक्षामप्यदात्-समागता लोका यदा वः पश्येयुस्तदा भवद्भिर्देवैरिव निमेषशून्यैरेव भाव्यम्। भोजनार्थ निजनिजासने नृपालादिलोकेषु सकलेषु समुपविष्टेषु या या भोजनसामग्रीस्त्वत्तः प्रार्थयेय तास्ताः सत्वरमेव दातव्या, भवद्भिर्मनागपि विलम्बो नैव कार्यः, ततोऽहं वो मोक्ष्यामि, वैपरीत्यकरणे तु कदापि नो मोक्ष्यामीति सत्यं वदामि। इत्थं सार्थवाहोक्तमशेषमपि ते सहर्षमुररीचक्रिवांसः। तदनन्तरं सार्थवाहो नृपान्तिकमेत्य नमस्कृत्यैवमभ्यर्थितुमारभत
स्वामिन्! नीतिमतां श्रीमतामद्वितीय! सम्प्रति भोजनवेला समायाता, अतः श्रीमत्प्रभुचरणाः सपरिवारा ममालयमागत्य पुनन्तु, तदा निसर्गान्महौजा बिडौजा इव शोभामावहन् सत्यपि सन्देहनिकरे दाक्षिण्यचेता राजा ससैन्यस्तस्यावासमुपेयिवान्।
270