________________
श्री चम्पकमाला-चरित्रम्
चतुर्थ-प्रस्तावः मालाशीलपरीक्षायै ये मन्त्रिणः प्रेषितास्तान् स्मारं स्मारं तच्छुद्धिकृते समुत्सुकोऽभूत्। तावद् बुद्धिखन्या सत्या निजस्त्रिया प्रेरितः सार्थवाहः सबलं राजानं निजगृहे भोजनाय निमन्त्रयामास, तस्याग्रहाऽऽधिक्यान्नृपोऽपि तद्वचो मेने। ततस्तदुचितनानाविधभोज्यसामग्रीसम्पादनाय सोद्यमः स निजनिकेतनमायातः। असौ खलु पक्वान्नादिनानाविधभोजनसामग्री गुप्त्या परकीयभवने समपीपचत्। तदा क्षितिपतिरप्यतुष्यत्, व्यचिन्तयच्च-यदिष्टं कार्यमत्रावश्यमेव सेत्स्यति, यदमुना सार्थपतिना सम्पादितां भोजनसामग्री तदालयं समेत्य ससैन्योऽहं भुञ्जीयेति युज्यते। सार्थवाहो यद्यपि सबलमेव मा प्रमोदातिरेकाद् भोजनाय न्यमन्त्रयत, तथापि तावतीः सामग्रीः सम्पादयितुं स कदापि न शक्नुयादित्यवधार्य मतिमान् राजा कमपि निजसेवकं तत्र सदने प्राहिणोत्। सोऽपि तदीयसदनमागत्य, ततः परावृत्य राजानमित्याचख्यौस्वामिन्! तस्य निकेतने सामरयाः का कथा?, पाकशालायां धूमोऽपि नालोकि, तदनुचराश्च निश्चिन्ता एव ददृशिरे, किमन्यद्वदामि एकः शिशुरपि यावद् भुञ्जीत तावत्यपि सामग्री तेन नाकारि, पुनः कथमेष ससैन्यं श्रीमन्तं न्यमन्त्रयत?, इति सेवकोदितमाकर्ण्य क्षमेशोऽपि तत्कालमेव क्रुधा जज्वाल, अभ्यधाच्चैवम्-अहो! यदेष ससैन्यं मां निमन्त्र्य किमप्यकुर्वन् निरुद्यमस्तिष्ठति?। तेनाऽनुमीयते यदसौ महाधूर्तोऽस्ति, अथवा किमेष घातकः?, वञ्चकोऽलसो वा?, योऽस्तु सोऽस्तु। सपरिवारोऽहं तदालये समागतायां वेलायां भोक्तुं व्रजिष्यामि, सामरया विना कथमेतान्मे परिवारान् भोजयतीत्यपि द्रक्ष्यामि?।
अस्मिन्नेवावसरेऽस्थिचर्मावशेषांस्तान् गर्त्तस्थान् मन्त्रिणः स्वस्त्रिया शिक्षितः सार्थवाह आह खल्वेवम्-मन्त्रिणः! मदादेशम
269