________________
चतुर्थ-प्रस्तावः
श्री चम्पकमाला-चरित्रम् यतः-विषं तु भक्षितं सदेव परिपीडयति लोकान्, अयं तु दर्शनादिनाऽपि जनानधिकं परिभवति। हन्त! सत्या अमुष्याः शीलपलमशितुं गृध्रात्मतां गता वयमत्राऽऽगताः परन्तु दुर्दैवयोगादपूर्णमनोरथा मध्य एवेदृशां शोच्यां दशामुपगता अभूम, कूपोपमेऽस्मिन् गर्ते नः पुराकृताऽशुभकर्माण्येव न्यपातयन्, भीषणे नरके नारका जीवा इव वयमत्र गर्ते यावज्जीवं कथं स्थास्यामः?, यावदन्यं किमपि न ब्रूयाम तावदज्ञातैतहुर्दशान् संलब्धकुकर्मफलकान् कश्चिद्दासेयादिरपि कथमत्र संशोधयेज्जानीयाद्वाऽविदितः सः?, यथा खलु सागरे महाऽऽवर्ते पतितायाश्चक्रवत्तत्रैव भ्रमन्त्या नाव उद्धारः कत्तुं न पार्यते, तथा गद्दमुष्मादस्माकमुद्धतिरपि न भाति, इत्थं मिथ आलपन्तश्चिन्ताऽऽतुराः शोचन्तस्ते तत्रैव गर्तेऽगदनीयं दुःखमनुभवन्तः क्षुत्तृषाक्रान्ता अतिष्ठन्। ततः प्रत्यहं शिक्येन मृण्मयपात्रे कोद्रवादिकदन्नं भोजनाय निक्षिप्य जलं च कमण्डलौ निधाय भो मन्त्रिणः! सावधाना भवत, भोज्यादिकं गृह्णीत? इति व्याहृत्य सर्व खाद्यपेयादिकं ददाना सती तानरक्षत्। यस्मादुपोषणमिव लघ्वशनं गुणकारि भिषजां गणैय॑गादि। तस्मादेव हेतोरल्पाशनेनापि शरीरमवन्तस्ते मन्त्रिणो मुमुदिरे। इत्थं मिथो भृशमनवरतं शोचन्तः, पशव इव तत्रैवाऽश्रन्तो विसृजन्तश्च मलमूत्रादिकं कायिकं कष्टमपि दुर्वचं सहमाना, रसत्यागादितपोऽपि भावमन्तरा समाचरन्ते। दीनाननाः सम्प्राप्तपारतन्त्र्यास्ते चत्वारो मन्त्रिणः पल्योपममिव षण्मासांस्तत्र गर्ने महता कष्टेन व्यत्यैरन्। ___ अत्रावसरे कमपि शत्रु जित्वा गगनधूलिसार्थवाहेन सत्रा राजा विक्रमादित्यः ससैन्यस्तत्र चम्पापुर्यां समाययौ। ततो राज्ञ आज्ञया सार्थेशः स्वसदनमागात्तदावसरे संप्रासे सा सती मन्त्रिकथामशेषां निजभर्तारमाचक्शौ। राजापि यावत्पूर्व चम्पक
268