SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्री चम्पकमाला-चरित्रम् चतुर्थ-प्रस्तावः ____अथैवमन्येऽपि विक्रमादित्यभूपतेर्मन्त्रिणः सहस्रदेव-श्रीसारबुद्धिसार-नामानस्त्रयोऽपि प्राक् तत्रागत्य तथैव दूत्या चम्पकमालां निजनिजाशयं व्यजिज्ञपन् दूतीमुखात्तदादिष्टसमयमवगत्य तस्यामेव त्रियामायां क्रमशः द्वित्रिचतुःप्रहरेषु तदालयमीयुः। प्रथमवदेतेऽपि तत्पल्यकोपर्युपवेशनानन्तरमेव तदधस्तात्कृतमहागर्ते निपेतुः, तज्जाने चिरविप्रयुक्ता मिथः सज्जिगंसया समुत्सुका इव मिमिलुः। अथ तत्र गर्ते ते चत्वारो निपतिता अतिसूक्ष्मसैकतमालोकमाना मिथ इत्थमालेपुः-अहो! नूनमेषा सतीमतल्लिकास्ति, दयालुताप्यस्या महत्येव वर्तते, यदनया महागर्ते घोरनरकोपमे नो निपातयन्त्याप्यङ्गानि नाऽभज्यन्त। यदत्र गर्ते निपततां नः प्रथममतिक्लेशो जायते, परमायतावेतल्लाभकारि शिक्षणमेव भविष्यति। अमुया सत्या यदकारि नो दुर्दशेयं सापि शिक्षैव मन्तव्या। यतः सती प्रकाण्डेयं कीदृशी मतिमती वर्तते, कियच्चास्याश्चातुर्यमस्ति, सर्वथा सद्धिः कविभिः प्रशस्यतमा भाति, यस्मान्मतिवैशद्यशालिनोऽप्यस्मांस्तथा छलयामास बालिशानिव निजातुलचातुरीकलाकल्पनया, यथा खलु दीपके निपतन्तः पतङ्गाः स्वदोषेण भस्मीभवन्ति। तथा वयमपि विषयपरिपीडिताः कामकिकरतामुपनीतास्तया चतुराणामग्रेसरया च्छलिता घोरनरकाकारे नीचैस्तरे गर्तेऽस्मिन्नपताम। अतोऽत्र महागर्ते निपतितान् दुर्मदैर्दुर्दमान् महागजानिव विषयाऽऽशारुङ्नष्टज्ञाननयनान् मदोन्मत्तानस्मानस्तु धिक् शतशः। मांसपिण्डचिखादयिषया दुर्धियां मीनानां गलबन्धाद् दुर्दशा यथा जायते तथा विषयपलाशनगृध्नूनां दुर्धीशिरोमणीनामस्मादृशामीदृशी दुःस्थितिरुपतिष्ठेत, तत्र किमाश्चर्यम्। तेन हेतुना गुणवर्णाभ्यामेष विषयो विषादप्यधिको जागर्ति, 267
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy