________________
चतुर्थ-प्रस्तावः
श्री चम्पकमाला-चरित्रम् चिरविरहिणी विषयसन्तसां मां शशिनः कलेव सुशीतलामकार्षीः। तेन पुंसा साकं सङ्गन्तुं मनो मे नितरामौत्सुक्यं धत्ते, समुत्साहि च वर्वति, तथापि कस्यचित्कार्यस्य हेतोः किञ्चिद्विलम्बयिष्ये। अद्यतनदिवसाच्चतुर्थे दिवसे तमागतं मन्त्रिणमेकाकिनं निशायाः प्रथमे प्रहरेऽत्र प्रेषयेः। यथा लोकेऽर्थमन्तरा भोग्यसामग्री न सम्पद्यते, तथा दानेन विना तस्यौदार्यपरीक्षापि नो जायेत?, इति प्रेम्णो दानमेव प्रथममाहुः शास्त्रे पण्डिताः। अतः प्रागेव लक्षदीनारान्मे प्रेषयतु, त्वं हि सर्वमेतत्तमाचक्ष्व?, मया सङ्गन्तुमुत्सुकं तमाश्वासय शीघ्रम्। इत्थं श्रुत्वा सा दूती तं मन्त्रिणं सर्वमवोचत्। तच्छ्रुत्वा सोऽपि स्वं कृतार्थं मन्यमानः प्रामोदत।
इतश्च शेमुषीखनिकल्पा सा सती गृहान्तः क्वचिदेकत्र कोणे धान्यस्थापनव्याजेनैकान्तोपवेशनस्थले नीचैस्तमं गर्तमेकमचीखनत्। तत्र च दयाशालिनी साऽधस्ताद् गाङ्गेयं सैकतं निपात्य बहुलं कोमलमचीकरत्। तदुपरिष्टाच्च सूक्ष्माऽऽमतन्तुस्यूताऽऽस्तरणसुसज्जितं निर्मलरमणीयवसनविभूषितं पल्यङ्कमप्यतिष्ठिपत्। अथ तद्दिने यथोक्तसमये प्रेषितलक्षदीनारः कामदेवमहागदोद्दीपकः, कुपथ्यवेषधारकः, कर्पूरवालुकलवङ्गादिमिश्रितताम्बूलपूर्णवदनः कस्तूरीकाश्मीरकर्दमप्रलिप्तगात्रः, पुष्पधन्वनश्चापतुल्यया सुमालया विभूषितग्रीवः, कस्तूरीप्रमुखलेपसुरभीकृतश्मश्रुः, सुरभिविशिष्टधूपसुवासिततनुवासाः स मन्त्री रजन्याः प्रथमे प्रहरे तस्याः सत्याः सदनमागात्। तत्रैवावसरे तया करामुल्या दर्शितशय्योपरि प्रमत्तकल्पो मन्त्री सदसद्विवेकं विनैव त्वरया यावदुपविशति तावत्तदीयमनोरथेन सहैव पल्यकोपर्यास्तीर्णतन्तुस्तोमे त्रुटिते सहसैव स दुर्धामन्त्री तदधस्तान्महागर्ते पपात।
266