________________
श्री चम्पकमाला-चरित्रम्
चतुर्थ-प्रस्तावः शीलमसम्भवमेव सम्प्रतिकाले प्रतिभाति। तदुक्तम् स्थानं नास्ति क्षणं नास्ति, नास्ति प्रार्थयिता नरः।
तेन नारद! नारीणां, सतीत्वमुपजायते ||३५||
व्याख्या - हे नारद! नारीणां, स्थानं = तद्योग्यसङ्केतस्थलं नास्ति = न मिलति, क्षणं = समयो वा नास्ति, कोऽपि प्रार्थयिता नरो वा न मिलति तासामेव नारीणां सतीत्वमुपजायते तिष्ठति, नान्यथेति भावः।
राजन्! यथा मन्दुरायां प्रतिबद्धोऽश्वो मनसो विषयाऽऽसक्तत्वेऽप्यगत्या शीलमवति, तथा या ललना मनसि विषयरिरंसायाः सद्भावेऽपि लज्जा-भीत्यादिना शीलं पालयति। मनोयोगं विना तस्याः शीलपालनं वास्तविकं भवितुं नाऽर्हति, न वा शास्त्रोक्तं माहात्म्यं साऽञ्चति। सह मनसा या विषयसुखमनीहते सैव सतीत्वमुपैति, तादृशी तु कापि न दृष्टिपथमारोहति। किञ्च यदभाणि प्रभुणा सार्थवाहस्य स्त्रीशीलप्रभावादेव कण्ठस्था चम्पकमाला न म्लायति, तत्कालनिष्पन्नेव भातीति तदपि विचारसहं न मन्ये, न वा तत्र तत्पत्न्या अखण्डितं शीलं हेतुः, किन्तु कस्याश्चिद्देवताया अनुभावादेव तत्कण्ठस्था सा विकस्वरा वरीवृत्यतेऽनवरतम्। निश्चयमेतदवेहि-यत्सा चम्पकमाला मुधैव मायया तादृशं कपटं विधाय भर्तारं तं सार्थवाहमवञ्चयत। नूनं केनापि यूना कामुकेन स्वैरं रमते सा, यस्मात् - "ऐन्द्रजालिक इव मायाविनी कामिनी विचित्रमेव मायां विरचय्य पुमांसमविद्वांसं छलयति, सतीत्वं च प्रथयति।
राजा जगाद-मन्त्रिणः! एवं मा वदत? यदीयं सागराम्बरा रत्नगर्भा निगद्यते, अत एवाऽस्यां बहुला ललना यथार्थशीलपालिनी
259