________________
चतुर्थ-प्रस्तावः
श्री चम्पकमाला-चरित्रम्
अथ चतुर्थः प्रस्तावः प्रारभ्यते
सत्याश्चम्पकमालायाः, सतीत्वस्य परीक्षणम् । प्रस्तावेऽस्मिंश्चतुर्थे हि, वर्णयामि सुविस्तरात् ||१||
अथैकस्मिन्प्रस्तावे कमलभूरिवाऽधिसभं सिंहासने सुखाऽऽसीनः स्मेरायमाणशारदशर्वरीशसहोदरवदनः, अत एव दाडिमीबीजानुकारिदन्तांशुकाशिताऽशेषाशो हास्यक्रीडनतत्परो मन्त्रिचतुष्टयपरिवृतः विक्रमार्कक्षितिपतिः पुरा सार्थवाहमुखाद्यथा श्रुतं चम्पकमालायाः शीलमाहात्यमखण्डितं महाश्चर्यकारि तत्तेषां मन्त्रिणामग्रे वदितुमारभत। नृपोक्तं तदाकर्ण्य महाद्भुतमेतदिति चकितास्ते राजानमेवमवोचन्त-स्वामिन्! नह्येतत्तथ्यं प्रतिभाति, सर्वथाऽलीकमेवैतन्मन्यामहे। यद्यपि शास्त्रकाराः शास्त्रे सर्वव्यापिनः सर्वसिद्धिमतो ब्रह्मणो ज्ञानमिव स्त्रीणां चरित्रमपि दुर्जेयमित्याहुः यथा वाऽतिचपलानां मत्स्यानामालयानि जलानि न शुद्ध्यन्ति तथा चपलतरप्रकृतिकानां स्त्रीणां मनः शुद्धतां स्थैर्य वा कथमापद्येत?, सर्वथैतदाकाशकुसुममेव प्रतीयते। भवानिव विशुद्धमना अखण्डितशीलशाली पुमान् यद्यपि कश्चिदन्यः सम्भवति, किन्तु निसर्गचपलाः कौटिल्यप्रियाः कामिन्यस्त्वखण्डितशीलाः कदापि नैव सम्भवन्ति। यद्यपि काचिदबला स्थानस्य प्रार्थयितुर्वा विरहान्निजपरिजनभीत्या वीडया वा कायिकं वाचनिकं च शीलमवत्यपि, मनस्तु तस्या अपि शुद्धं नैव जात्वपि भवितुमर्हति, तासां मनसा शीलपालनं शशशृङ्गतुल्यमेव जानीहि। यतः-"कामिनीनां चित्तमनवरतं चञ्चलमेव वर्वति।" अतः स्त्रीणां त्रिकरणविशुद्धं
258