SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ तृतीय-प्रस्तावः __ श्री चम्पकमाला-चरित्रम् सार्थेश! त्वमेवं शीलप्रभावं जानासि चेत्स्वयमीदृशानाचारं कथं चकर्थ?, अर्थादन्यस्त्रीगमनेन स्वीयशीलं कथकारमभाङ्क्षीः ?, ईदृशे ज्ञाने त्वयि विद्यमाने सति कथं महापापजनके चिरकालिकदुर्गतिप्रदे तादृशेऽकृत्ये प्रावर्त्तथाः?, करकमले दीपके ध्रियमाणे किं दृष्टिमान् पुमान् गर्ते पतति?, नैव निपततीति हार्दम्। दक्षिणानां पुंसामवश्यं तदेव ज्ञानं फलेग्रहि निगद्यते, यथा येन 'सृणिना मदमत्तमपि मातङ्गं हस्तिपको वशं नयते, तथा प्रमादिनमुन्मार्गगामिनमात्मानं यदि स्ववशं नयेततमाम्, तद्देव खलु धीरपुंसामपि ज्ञानं फलवज्जायेत। अथवा मतिमानपि पुमान् रागान्धीभूय जानन्नपि चेदीदृशमकार्य कुर्यात्तर्हि तदपि घटते, यतः "विवेकिनोऽपि जना नरकजनकज्ञानदशायामप्युत्कटेच्छयाऽन्याये प्रवर्त्तमानाः सदसद्विवेचयितुं नैव प्रभवन्ति।" यतः- "एकदा कुत्रचिद्रम्यकानने समाधौ समासीद्धरः, तत्रैव कियत्यो मानुष्यो युवतयः क्रीडितुमाजग्मुः, ताः सुन्दरीरवलोकमानोऽसमाप्तसमाधिको हरः सञ्जातकामविकारस्ताश्च गगने नीत्वा ताभिः सह रेमे, प्रान्ते पार्वत्या ता अधः पातिताः शिवश्च समाधौ योजितः"। "विष्णुरपि कस्यचिद् बलीयसो जलन्धरासुरस्य तनयां छलयित्वा समुपाभुङ्क्त, ततस्तं सा शशाप"। "इन्द्रोऽप्येकदा गौतमर्षेः पत्नीमहल्यां रूपान्तरव्याजेन बुभुजे। तद्विदित्वा गौतमो दत्तवांस्तस्मै शापं तेन महेन्द्रस्य करसहस्रं भग्नात्मतामियाय।" "कोऽप्येको यवीयांस्तपस्वी क्वचिन्मन्दिरे किलैकाकी न्यवसदसौ खलु जितेन्द्रियतया सर्वत्र प्रख्यातिमानाऽऽसीत्। दैवादेकदा काचिदेका कामिनी मनोहराऽऽभरणवसनविभूषिता तदग्रतश्चचाल, तद्रूपविमोहितस्तपस्वी पञ्चेषुपरिपीडिताऽशेषगात्रस्तामन्वगच्छत्। यदा सा निजसदनमागतवती तदा स योगी तां रतिमयाचत, तस्य याचनं श्रुत्वा द्वारं पिधातुं यदैच्छत्तदा स बलान्निजशिरसा 1. अङ्कुशेन, 254
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy