SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्री चम्पकमाला - चरित्रम् तर्हि चेतनानां का कथा?,"अत आहुः = सीमा खानिषु वज्रमगदङ्कारेषु धन्वन्तरिः, कर्णस्त्यागिषु देवतासु कमला दीपोत्सवः पर्वसु । ॐकारः सकलाक्षरेषु गुरुषु व्योम स्थिरेषु क्षितिः, श्रीरामो नयतत्परेषु परमं ब्रह्म व्रतेषु व्रतम् ||३२|| व्याख्या - खानिषु = आकरेषु यथा वज्रमशनिः सीमा, अगदङ्कारेषु = वैद्येषु धन्वन्तरिः, त्यागिषु = दातृषु कर्णः, देवतासु यथा कमला = लक्ष्मीः, पर्वसु लक्ष्मीः, पर्वसु = पुण्यतिथिषु यथा दीपोत्सवो दीपमालिका, सकलाक्षरेषु = सकलवर्णेषु यथा ॐकारः, गुरुषु महत्त्वेषु यथा व्योम = गगनम्, स्थिरेषु = निश्चलेषु यथा क्षितिः = पृथ्वी, नयतत्परेषु = नीतिशालिषु यथा श्रीरामः, तथा व्रतेषु परमं = सर्वोत्कृष्टम्, ब्रह्मव्रतम् = ब्रह्मचर्यमस्ति । अन्यच्चशीलं प्रधानं न कुलं प्रधानं, कुलेन किं शीलविवर्जितेन । नैके नरा नीचकुले प्रसूताः, स्वर्गं गताः शीलमुपेत्य धीराः ||३३|| व्याख्या इह लोके शीलमेव प्रधानं = मुख्यमस्ति, कुलं न प्रधानमस्ति, शीलविवर्जितेन = शीलं विना कुलेन किम् = अकिञ्चित्करं मुधैव । यतः - नीचकुले अधमकुले प्रसूता = उत्पन्ना अप्यनेके नरा धीराः = मतिमन्तः शीलमुपेत्य = परिपाल्य स्वर्गं गताः = स्वर्गमापेदिरे। अतः शीलस्यैव प्राधान्यं नाऽन्यस्येति तत्त्वं जानीहि । - तृतीय-प्रस्तावः = 253 राजन्! अमुष्या मालाया अम्लानतायां योऽयं हेतुस्तवाग्रे मया न्यगादि, तं तथ्यमेव विजानीहि । यतः - "स्वामिनोऽग्रेऽलीकभाषणमनर्थहेतुर्भवतीति सत्यमेव भाषितव्यमाश्रितैः पुरुषैः । " इत्थं सार्थवाहोक्तमाकर्ण्य विक्रमार्को राजा विहस्य तमेवमुवाच
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy